SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६ सर्गः] द्विसंधानम् । अन्तःपुरकामिनीबाष्पैः सह पपात । तदनु] दिव आकाशात् सुरासुराणां देवदानवानां कुसुमाञ्जलिः पुष्पाञ्जलिः मधुपायिभिधमरैः समं सह तयोर्नरेन्द्रयोः [उपरि] अपप्तत् ॥ सहोक्तिः ॥ निपीय रक्तं सुरपुष्पवासितं सितं कपालं परिपूर्य सूनृताम् । नृतां प्रशंसन्त्यनयोननत न नर्तवाचोयुधि रक्षसां ततिः ॥ ३७॥ . __(शृङ्खलाबन्धोऽयम्) निपीयेति ॥ रक्षसां ततिः युधि सुरपुष्पवासितं रक्तं सितं कपालं परिपूर्य निपीय सूनृतां सत्यप्रियाम् ऋतवाचोः सत्यवचनयोरनयो राजपुत्रयोzतां मनुष्यतां प्रशंसन्ती सती न न ननर्त । ननतॆव ॥ शृङ्खलायमकम् ॥ प्रसार्य पादावधिरोप्य बालकं विधाय वक्रेऽङ्गुलिषङ्गमङ्गना । प्रवेशयामास वसां महीक्षितां प्रकल्प्य पाथः पिशिताशिनां शनैः ॥३८॥ प्रसार्येति ॥ पिशिताशिनां राक्षसानाम् अङ्गना पादौ प्रसार्य बालकम् अधिरोप्य वक्र [बालकस्य] अङ्गलिषङ्ग विधाय महीक्षितां राज्ञां वसां मांसास्थिगतस्नेहं पाथोजलं प्रकल्प्य प्रवेशयामास बालं पाययामास ॥ समुत्पतन्तो दिवि रेणवोऽणवो विलूनमूलाः क्षतजेन तेन ते । अधःप्रदीप्तज्वलनाः सितासिता रणस्य धूमा इव रेजिरेऽजिरे ॥ ३९ ॥ समुदिति ॥ तेन क्षतजेन रक्तेन विलूनमूला नष्टमूला अणवो रेणवो दिव्याकाशे समुत्पतन्तः सन्तः, अधःप्रदीप्तज्वलना धूमा इव, सितासिताः रणस्य अजिरे अङ्गणे रेजिरे ॥ उत्प्रेक्षालंकारः ॥ शवाः शिवानां मुखतीयवह्निना रथेषु देहस्थितबाणदारुणा।। विदह्यमाना विधिमाययुर्भटाः स्त्रियश्च ता बाष्पजलाञ्जलिं ददुः ॥४०॥ . शवा इति ॥ शवा मृता भटा योधा शिवानां फेरवीणां मुखतीयवह्रिना मुखोद्भवानलेन । 'मुखपार्वतसोर्लोपश्च' इति छटिलोपाभ्यां सिद्धम् । कर्चा देहस्थितबाणदारुणा कायप्रविष्टशरेन्धनेन करणेन रथेषु विदह्यमानाः सन्तः विधि संस्कारम् आययुः । स्त्रियः कामिन्यः बाष्पजलाअलिमश्रुजलाञ्जलिं ददुः ॥ समुच्चयः ॥ मतङ्गजानामधिरोहका हता मतं गजानां विवशा विसस्मरुः । तदीयपतया चपलायमानया परे विभिन्नाश्च पलायमानया ॥ ४१ ॥ मतङ्गेति ॥ मतङ्गजानां करिणामधिरोहका आधोरणाः हतास्ताडिताः विवशाः सन्तः गजानां मतं शिक्षा विसस्मरुः विस्मृतवन्तः । च पुनश्चपलायमानया चञ्चलायमानया पलायमानया धावन्त्या तदीयपक्षया गजश्रेण्या परे शत्रवः विभिन्नाः ॥ समुच्चयः ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy