SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ६२ काव्यमाला | प्रभावतः प्रकृष्टभावयुक्तेन फलं दातुं समर्थेन प्रभावतः प्रतापेन विवर्जिताः सन्तः तया हीनतया कातरतया ही कष्टम् न रराजिरे ॥ आदियमकम् ॥ गजा नियन्तृन्करशीकरोत्करैर्विमुक्तसूत्कारमिषूपदारितान् । निशारशीतैरुदमी मिलन्नहो महीयसां प्रीतिररुंतुदेष्वपि ॥ ३२ ॥ गजा इति ॥ गजा इषुभिरुपदारितान् नियन्तॄन् निशारशीतैः हिमांशुशीतलैः करविमुक्तजललववृन्दैः विमुक्तसूत्कारं यथा स्यात्तथा उदजीवयन् । अहो महीयसां असंतुदेष्वपि प्रीतिः ॥ ज्वलत्यमुष्मिन्कुपिते महीपतावनेकबन्धानि विभावसाविव । प्रिये जनानां ननृतु रणे तथा वने कबन्धानि विभावसाविव ॥ ३३ ॥ (अन्त्यपादयमकम् ) ज्वलेति ॥ प्रजानाम् असाविव प्रिये विभौ अस्मिन्महीपतौ कुपिते वने विभावसा विव रणे ज्वलति सति अनेकबन्धानि नानाविधकरणानि कबन्धानि ननृतुः ॥ अन्तयमकम् ॥ तयोः पतन्त्यः शरपञ्जरान्तरं विरेजुरुस्रातपयष्टयः स्फुटम् । यमेन शुद्धामिषसंजिघत्सया तनूभृतां पर्श्व इवावतानिताः ॥ ३४ ॥ तयोरिति ॥ तयोः शरपज्जरान्तरं बाणवीथिमध्यं पतन्त्यः उस्रातपयष्टयः किरणालोकयष्टयः, यमेन शुद्धामिषसंजिघत्सया केवलं मांसभक्षणवाञ्छया अवतानिताः प्रसारिताः पर्श्वः कुक्षिप्रदेश स्थीनि इव, स्फुटं यथा स्यात्तथा विरेजुः ॥ उत्प्रेक्षा ॥ शरैः समस्तः खरदूषणो रिपुः समं ततोऽभीतमहानराजितः । विशीर्णचेताः कृतयुद्धविक्रमः समन्ततोऽभीतमहा न राजितः ॥ ३५ ॥ शरैरिति ॥ ततो लोकप्रसिद्धात् अभीतमहानराजितः निर्भयमहापुरुषरामलक्ष्मणसङ्ग्रामात् समं युगपत् शरैर्बाणैः समस्तः संतर्जितः अतएव विशीर्णचेता: विह्वलचित्तः कृतयुद्धविक्रमः विहितसङ्ग्रामपराक्रमः अभीतमहा अभि समन्तादितं गतं महो यस्य सः सामस्त्येन नष्टतेजाः खरदूषणो रिपुः खरदूषणनामा शत्रुः समन्ततः सामस्त्येन न राजितः न शोभितः ॥ भारतीयपक्षे- अभीतमहानराजितः अभीतो भीमः महानरोऽर्जुन: तयो - राजितः सङ्ग्रामतः संमुखागतार्जुनसङ्क्रामतो वा शरैः ततो व्याप्तः समस्तः सकलः खरदूषणः तीव्रापराधो रिपुः कृतयुद्धविक्रमः विहितयुद्धविगतशक्तिः ॥ श्लेषः ॥ चिरस्य युद्धा स पपात निष्क्रियः सहैव शुद्धान्तवधूजनाश्रुभिः । सुरासुराणां कुसुमाञ्जलिर्दिवस्तयोरपप्तन्मधुपायिभिः समम् ॥ ३६ ॥ चिरस्येति ॥ स रिपुः चिरस्य चिरकालं युद्धा निष्क्रियः सन् शुद्धान्तवधूजनाश्रुभिः
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy