________________
६ सर्गः ]
द्विसंधानम् ।
हतैकपादं युधि तस्य रोपणैः क्षणै निषण्णं सुहृदीव कार्मुके । परत्र राजन्यकमेकपादकं तपस्यतीव स्म जिगीषया रिपोः ॥ २६ ॥ हतैकेति ॥ तस्य रोपणैर्बाणैर्हतैकपादं सत् क्षणं, सुहृदीव, कार्मुके निषण्णं राजन्यकमेकपादकं सत् परलोके रिपोर्जिगीषया तपस्यति स्मेव ॥ उत्प्रेक्षा ॥
स सूर्यहासं किमसिं किमर्गलां गदां नु पाशं नु परश्वधं धनुः । दधत्किमित्याकलितो न भीरुभिर्मतिः कुतो वा चलितेषु धातुषु ॥ २७॥ स सूर्येति ॥ स किं सूर्यहासमसिम् किम् अर्गलाम् किं गदां किं पाशं किं परश्वधं किं धनुः दधत् इति भीरुभिर्न आकलितः । धातुषु चलितेषु मतिः कुतः ॥ अर्थान्तरन्यासः ॥
६ १
स शात्रवाणां हृदि शल्यमुद्धरन्खशस्त्रशल्येन जगाम बन्धुताम् । समुन्नता यत्कुपिताश्च कुर्वते न तत्प्रतीता ह्यपि दुर्जनाः प्रियम् ॥२८॥ स शात्रवेति ।। स स्वशस्त्रशल्येन शात्रवाणां हृदि शल्यमुद्धरन्नुत्पाटयन् सन् बन्धुतां जगाम । यत् कुपिता अपि समुन्नताः सत्पुरुषाः कुर्वते तत् प्रतीताः प्रसन्ना अपि दुर्जनाः प्रियं न कुर्वते ॥ अर्थान्तरन्यासः ||
नृपा नृपत्वं न शराः शरात्मतां न कार्मुकं कार्मुकतां तुरंगमाः । तुरंगतां तिष्ठधिरे न संयुगे विमुञ्चति ज्यायसि वाणसंहतिम् ॥ २९ ॥ नृपा इति ॥ ज्यायसि ज्येष्ठे भ्रातरि संयुगे बाणसंघातं विमुञ्चति सति ते सर्वे स्वधर्म न प्राप्तवन्तः । नृपत्वं भूपत्वं क्षात्रधर्मश्च शरात्मता बाणता प्राणिमारणं च कार्मुकता धनुषं कर्मवत्ता च, तुरंगता अश्वता शीघ्रगामिता च । अत्र पूर्वार्थे विरोधः, परार्थे परिहारः ॥ समुच्चयश्लेषौ ॥
गजेषु नष्टेष्वगजेष्वनायकं रथेषु भग्नेषु मनोरथेषु च ।
न शून्यचित्तं युधि राजपुत्रकं पुरातनं चित्रमिवाशुभद्भृशम् ॥ ३० ॥ गजेष्विति ॥ राजपुत्रकं युधि पर्वतजेषु करिषु नष्टेषु रथेषु च पुनः मनोरथेषु भन्नेषु सत्सु अनायकमसहायं शून्यं चित्तं यस्य तादृशं सत् भृशम्, पुरातनं चित्रमिव, अशुभत् 1 विरोधाक्षेपौ ॥
प्रभावतो बाणचयस्य मोक्तरि प्रभावतोषे समरे स्थिते नृपाः । प्रभावतो हीनतया विवर्जिता प्रभावतो ही न तया रराजिरे ॥ ३१ ॥ (पादादियमकम् )
प्रभेति ॥ प्रभावतो दीप्तिमतः शरसंघस्य मोक्तरि अतोषे प्रभौ समरे स्थिते सति नृपाः