SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ६० काव्यमाला | नायकतां विहाय कुतोऽपि याता गताः, तथा न विदिता लोचनगोचरा न जाताः । पदच्युतानां स्थानभ्रष्टानाम् इयं प्रत्यक्षभूता ईदृशी गतिर्भवति ॥ अर्थान्तरन्यासः ॥ प्रसह्य ताभ्यां परलोकसाधनः शरैर्नृपाणां गुणवान्पराहतः । मदाभिमानाधिकवीर्यसंग्रहाद्वसुस्मराभ्यामिव धर्मसंचयः ॥ २२ ॥ प्रसह्येति ॥ अर्थकामाभ्यामिव ताभ्याम् 'ज्ञानं जनं कुलं जातिं बलमृद्धिं तपो वपुः । अष्टावाश्रित्य मानित्वं मदमाहुर्गतस्मयाः' इत्युक्तरूपस्य मदस्य, नान्यो मत्तुल्यगुणवानि - त्यभिमानस्य, अधिकपराक्रमस्य च संग्रहादङ्गीकारात् परलोकसाधनः शत्रुलोकसाधनः स्वर्गसाधनश्च, गुणवान् जीवावान् व्रतादिमांश्च नृपाणां धर्मसंचयः चापसमूहः पुण्यसंचयश्च प्रसह्य शरैः पराहतो निराकृतः ॥ उपमा ॥ स सागरावर्तधनुर्धरो नरोनभःसदां कामविमानसंहतिम् । अयनसंतृप्तगवाक्षपद्धतिं चकार शांतैर्विशिखैर्विहायसि ॥ २३ ॥ - स सागेति ॥ सागरावर्तधनुर्धरः सागरस्य समुद्रस्य सगरधनुषो वा आवर्ता इवावर्ता यस्य तं सागरावर्त नाम वा धनुर्धरति स नरः शातैस्तीक्ष्णैः शरैः विहायसि गगने, अय• संक्लृप्ता स्वयंसिद्धैव वातायनश्रेणिर्यस्यास्तां नभः सदां देवानां कामविमानसंहतिं यथेष्ट - विमानसमूहं चकार । तद्युद्धदर्शनाय देवा अध्यायाताः || भारतीयपक्षे - विहायसि हानं विहः । कप्रत्ययान्तः । विहानि विशिष्टप्रवृत्त्योपलक्षितानि अयांसि लोहानि यत्रेति संगरे अनभः सदां मनुष्याणां काममत्यर्थ विगतो मानो यस्यास्तां संहतिम् अयत्नसंक्कृप्तगवाक्षपद्धतिम् अयनेन संक्लृप्ता विहिता गवां पशूनाम् अक्षपद्धतिरिन्द्रियवर्गो यस्यां ताम्, अयत्नेन अनायासेन संक्लृप्ता छिन्ना गवां वाणीनामक्षाणामिन्द्रियाणां पद्धतिर्वर्गो यस्या एतादृशीं चकार ॥ श्लेषः ॥ कणैर्गजास्तेन विलून पुष्करा बभुः स्रवन्तः क्षतजानि धारया | बृहन्नितम्बा दवदाहनीलिता नगाः क्षरद्वैरिकनिर्झरा इव ॥ २४ ॥ कणैरिति ॥ तेन नृपयुगलेन कणैर्बाणैः विलूनपुष्करारिछन्नशुण्डाम्राः गजाः धारया क्षतजानि रुधिराणि स्रवन्तः सन्तः, बृहन्नितम्बाः स्थूलसानवः, दवदाहेन नीलिताः, क्षरन्तो गैरिक निर्झरा येभ्यस्तादृशा नगाः पर्वता इव बभुः ॥ उत्प्रेक्षा ॥ रथप्रयुक्तस्य हयस्य पश्चिमे शरैर्विलूने पदयोर्युगेऽमुना । पुरः पदोत्क्रान्तधुरस्य चामरैर्मृगाधिपस्येव सटैः क्रमोऽभवत् ॥ २१ ॥ रथेति ।। रथे प्रयुक्तस्य पुरःपदैरप्रचरणैरुत्क्रान्ता धूर्येन तस्य यस्य पश्चिमे पदयोयुगले अमुना शरैर्विलूने सति चामरैः प्रकीर्णकैः, मृगाधिपस्य सिंहस्य सटैः केशरैरिव, क्रमोऽभवत् । उत्प्रेक्षा ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy