________________
६ सर्गः]
द्विसंधानम् ।
गतेति ॥ गतावशिष्टेषु पलायितशिष्टेषु शुष्कशिष्टेषु केष्वपि कतिपयेष्वपि पुजैः समुदायैः बलेषु सैन्येषु तपे ग्रीष्मे सरसोऽम्बुषु इव स्थितेषु सत्सु धनुर्भृतां नायकाः अकाल. मेघा इव समन्ततः सामस्त्येन संनिधि प्राप्ताः ॥ उपमा ॥
पतत्रिनादेन भुजंगयोषितां पपात गर्भः किल ताय॑शङ्कया । नभश्चरा निश्चितमन्त्रसाधना वने भयेनास्यपगारमुद्यताः ॥ १६ ॥ पतत्रीति ॥ नागाङ्गनानां गर्भः शरध्वनिना नागान्तकशङ्कया पपात किल निश्चयेन । भयेन उद्यता नभश्चरा असीनपगूर्य असिभिरपर्य वा वने निश्चितं मन्त्रसाधनं यैस्तादृशा अभवन् ॥ समुच्चयः ॥
समन्ततोऽप्युद्गतधूमकेतवः स्थितोलवाला इव तत्रसुर्दिशः। निपेतुरुल्काः कलमाग्रपिङ्गला यमस्य लम्बाः कुटिला जटा इव ॥१७॥
समन्तेति ॥ उद्गतधूमकेतवो दिशः स्थितोलवाला इव समन्ततः तत्रसुः । शालि. मञ्जरीपिङ्गला उल्का लम्बाः कुटिला यमस्य जटा इव निपेतुः ॥ उत्प्रेक्षा ॥
प्रभिन्नकक्षीवति लोलवाजिनि स्थिते पुरः स्यन्दनभाजि राजके । मनश्चकम्पे वनसंनिवासिनां तयोः क्षणं जीवितसंशयं गतम् ॥ १८ ॥ प्रभिन्नेति ॥ प्रभिन्नाः कक्षीवन्तो गजा यस्य तस्मिन् , लोलाश्चञ्चला वाजिनो यस्य तस्मिन् , स्यन्दनं भजति तस्मिन् , तयो राजके राजसमूहे पुरः स्थिते सति वनसंनिवासिनां मनो जीवितसंशयं गतं सत् क्षणं चकम्पे ॥
इतस्ततः संविवरीषतां द्विषां सितातपत्राणि शितार्धचन्द्रकैः । तयोविलूनानि यशांसि संहति समागतानीव रणाङ्गणेऽपतन् ॥ १९ ॥ इतस्तेति ॥ इतस्ततः संविवरीषतां संवरीतुमिच्छतां द्विषां शत्रूणां सितातपत्राणि श्वेतच्छत्राणि तयोः शितार्धचन्द्रस्तीक्ष्णबाणविशेषैविलूनानि छिन्नानि संहतिं समूहं समागतानि यशांसि इव रणाङ्गणे सङ्ग्रामभूमौ अपतन् ॥ उत्प्रेक्षा ॥ रथेषु तेषां जगतीभुजां ध्वजान्महीभुजौ चिच्छिदतुर्भुजानिव । तथा सुरप्रैरनयैः क्रियाफलं मदातिलोमाविव वाजिनां युगम् ॥ २० ॥ रथेष्विति ॥ महीभुजौ तेषां जगतीभुजां रथेषु ध्वजान् भुजानिव, तथा वाजिनामश्वानां युगम् क्षुरप्रैर्बाणविशेषैः, मदातिलोभौ क्रियाफलं कर्मफलम्, अनयैरनीतिभिरिव, चिच्छिदतुः ॥ संकरः ॥
शरेण चूडामणयः किरीटतो विपाटिता नायकतां विहाय ते । कुतोऽपि याता विदिता न भूभृतां पदच्युतानामियमीदृशी गतिः।।२१॥ शरेणेति ॥ [तयोः] शरेण भूभृतां किरीटतो विपाटिता उच्छलितास्ते चूडामणयः