SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५८ काव्यमाला | इषूनिति ॥ तौ यावत् शरानमुचताम्, अरातयः शरासन शरान् असूनप्यमुचन्, त त्प्रियाजनश्चाजस्रमश्रु व्यमुचत्, तथास्थिताः प्राणान्तिकावस्थां गता अप्यमी स्पर्द्धा न तत्यजुः ॥ वक्रोक्तिः ॥ विशेषसूत्रैरिव पत्तिभिस्तयोः पदातिरुत्सर्ग इवाहतोऽखिलः । पलायितोऽन्योन्यमवेक्ष्य निस्त्रपः सहाभिभूतत्रपते हि कस्य कः ॥ १० ॥ विशेषेति ॥ विशेषसूत्रैर्बाधकविधिभिरिव, तयोः पत्रिभिः, आहतस्ताडितो बाधितश्च, उत्सर्गः सामान्यविधिरिव, अखिलः पदातिः निस्त्रपः सन् अन्योन्यमवेक्ष्य पलायितः । हि यतः सहाभिभूतः कः कस्य त्रपते ॥ अर्थान्तरन्यासः ॥ स तिर्यगन्वक्पुरतश्च विद्विषां दरीषु गुल्मेषु ददर्श तौ गणः । असूनिवान्वेष्टुममुष्य चक्षुषोर्मनस्विनौ बभ्रमतुर्मनः खपि ॥ ११ ॥ सतिर्येति ॥ स विद्विषां गणः तिर्यक् पार्श्वभागे अन्वक् पश्चाद्भागे पुरतोऽग्रभागे दरीषु कंदरेषु गुल्मेषु झाटकेषु तौ ददर्श । मनस्विनौ तौ, अमुष्य गणस्य असूनन्वेष्टुमिव, अमुष्य चक्षुषोर्मनःसु च बभ्रमतुः ॥ उत्प्रेक्षा ॥ ययुर्विदेशं विदिशं जगाहिरे धुनीरगाधा विलङ्घिरे गिरीन् । धृताः समुद्रस्य विलोलवीचिभिर्भयेऽपि भृत्या न पराक्रमं जहुः ॥१२॥ ययुरिति ॥ भृत्याः पदातयो विदेशं ययुः, विदिशं दिङ्मध्यं जगाहिरे, अगाधा धुनीर्नदीगिरींश्च विललङ्घिरे, समुद्रस्य विलोलवीचिभिश्चञ्चलतरङ्गैर्धृताः । एवं भयेऽपि पराक्रमं न जहुः । भयस्थानेऽपि समुद्रपतनादौ ग्लानिं न जग्मुः ॥ वक्रोक्तिः ॥ विम्बानि भावोरिव विभ्रतोस्तयोर्विशङ्कया केचन कंदरोदरम् । तमिस्रसंघा इव तेऽधिशिश्यिरे क्व नष्टमार्गा न विशन्ति जन्तवः ॥ १३ ॥ बिम्बानीति ॥ भान्वोरिव बिम्बानि बिभ्रतोस्तयोर्विशङ्कया तमिस्रसंघा इव केचन भृत्याः कंदरोदरमधिशिश्यिरे । नष्टमार्गा जन्तवः क्व न विशन्ति ॥ अर्थान्तरन्यासः ॥ इति प्रतापादवगाढयोस्तयो रणस्य मध्यं रिपवोऽनुकूलताम् । ह्रदस्य जग्मुः करिणोरिवोर्मयश्चलाः सहन्ते किमिवातिवर्तिनः ॥ १४॥ इति प्रेति ॥ रिपवः ऊर्मय इव रणस्य हृदस्येव मध्यम् अन्तः अवगाढयोः अधिष्ठित - वतोः, तयोर्नृपयोः करिणोवि प्रतापात्प्रभावात् अनुकूलताम् अनुलोमताम् अनुतटतां जग्मुः । चलाश्चञ्चला अतिवर्तिनोऽतिक्रमणशीलान् किमिव सहन्ते । अपि तु न ॥ अर्थान्तरन्यासः ॥ गतावशिष्टेषु बलेषु केष्वपि स्थितेषु पुत्रैः सरसस्तपेऽम्बुषु । अकालमेघा इव तत्र नायकाः समन्ततः संनिहिता धनुर्भृताम् ॥ १९ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy