________________
६ सर्गः]
द्विसंधानम् । तपःसमाधिष्विव तौ तपस्यतां प्रसह्य कर्णेष्विव दिक्षु दन्तिनाम् । दिगीश्वराणां हृदयेष्विवायतं विकृष्य मौर्वी विनिजनतस्तराम् ॥ ४ ॥
तप इति ॥ तौ मौर्वी ज्याम्, आयतं कर्णान्तं विकृष्याकृष्य, तपस्यतां तपःसमाधिविव, दिग्दन्तिनां कर्णेष्विव, दिक्पालानां हृदयेष्विव, प्रसह्य विनिजन्नतुस्तराम् ॥ उत्प्रेक्षा ॥
ज्ययोर्विरिद्धं विनिशम्य धन्विनां निपेतुरस्त्राणि करान्मनांसि च । श्लथानि पूर्वाणि पराणि योषितां घनानि गूढान्यभवन्नभःसदाम् ॥५॥
ज्ययोरिति ॥ ज्ययोः विरिद्धं ध्वनि विनिशम्य धन्विनां धनुर्धराणां करात् अस्त्राणि निपेतुः, च पुनः पूर्वाणि मनांसि श्लथानि, नभःसदां देवानां योषितामबलानां गूढान्यालिअनानि पराण्यतिशयितानि धनानि दृढानि अभवन् ॥ यद्वा पूर्वाणि घनानि अद्यापि प्रेमरसरसायनरसिकानि मनांसि गूढानि प्रच्छन्नाशयानि, पराणि श्लथानि प्रेमकलहकालशिथिलानि घनानि प्रेमरसरसायनरसिकानि अभवन् ॥ अनेन ज्याध्वनेः स्वर्गव्यापित्वं स्त्रीणामतिभीरुता च ध्वन्यते ॥ समुच्चयः ॥
गुणेन लोकं निनदेन दिङ्मुखं रुषान्तवह्नि वपुषापि पूषणम् । दृढेन चालीढपदेन मेदिनीं गणं रिपूणामविवेष्टतां शरैः ॥ ६ ॥ गुणेनेति ॥ तौ गुणेन शौौदार्यादिलक्षणेन लोकं जगत् , निनदेन शब्देन दिगन्तरम्, रुषा रोषेण अन्तवहिं प्रलयानलम्, वपुषा देहेन पूषणमादित्यम्, दृढेन आलीडेन दक्षिणजयाप्रसारपूर्वकवामजचासंकोचरूपस्थानकविशेषेण मेदिनी महीम्, शरै रिपूणां गणमविवेष्टतां वेष्टितवन्तौ ॥ समुच्चयः ॥
यशोवकाशस्य विधित्सया शरैर्दिशः परासारयतोरिवायतम् । विकृष्यमाणं युगमेव गव्ययोः ससार पश्चान्न पदं रणे तयोः ॥ ७ ॥ यशविति ॥ यशोवकाशस्य विधित्सया दिशः शरैः परासारयतोरिव तयोः आयतं कर्णान्तं विकृष्यमाणं गव्ययोः प्रत्यञ्चयोर्युगमेव रणे पश्चात्ससार । नतु रणे तयोः पदं पश्चा. त्ससार ॥ उत्प्रेक्षा॥
नृपौ रुषा पातयतां शिलीमुखान्समं सपना हृदयान्यपातयन् । विदूरमुच्चैःपदमध्यरुक्षतां भियाध्यरुक्षन्युधि वामलूरकम् ॥ ८ ॥ नृपाविति ॥ सपनाः नृपरोषपातितबाणसमकालमेव हृदयानि अपातयन् , तथा नृपौ वि. दूरमलच्यामुच्चैःपदवीमारूढवन्तौ, सपत्ना युधि भिया वामलूरं छिद्रं प्रविविशुः ॥ सहजा वक्रोक्तिः ॥
इन्विमर्देऽमुचतां शरासनं शरानसूनप्यमुचन्नरातयः । अजस्त्रमश्रु व्यमुचत्प्रियाजनस्तथास्थिताः स्पर्द्धममी न तत्यजुः ॥९॥