SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। धनुरपि दधत्रेपे जिष्णुः सहायविशङ्कया न च भुजबलाद्वीरोऽन्यस्माद्धनंजयमिच्छति ॥ ६९ ॥ इति श्रीधनंजयविरचिते धनंजयाङ्के द्विसंधानकाव्ये राघवपाण्डवीयापरनाम्नि तुमुल __ वर्णनो नाम पञ्चमः सर्गः समाप्तः। ___ इतीति ॥ अग्रजं रामं युधिष्ठिरं भीमं च, अनुगतः पश्चाद्गतः, लक्ष्मीधरो लक्ष्मणो लक्ष्मीवांश्च, जिष्णुः जयनशील: अर्जुनश्च, इति प्राप्तां प्रतिबन्धिनी प्रतिकूलां पृतनां सेनां अविद्यामिव दृष्ट्वा जलनिधिरिव क्षुभ्यन् सन् धनुर्दधदपि सहायविशङ्कया ससहायजयकलङ्केन त्रेपे लजितः । यतः वीरो भुजबलादन्यस्माद् धनं जयं च नेच्छति ॥ अर्थान्तरन्यासः ॥ हरिणी वृत्तम्। इति श्रीदाधीचजातिकुद्दालोपनामकश्रीच्छोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां युद्धारम्भवर्णनो नाम पञ्चमः सर्गः । षष्ठः सर्गः। ततः प्रयुक्तभ्रुकुटि स दुर्धरो निजोद्धतं विक्रमकालसाधनः । अरातिघाताय तमग्रजं व्रजन्नमर्षमुद्योग इवान्वगद्युतत् ॥ १ ॥ तत इति ॥ प्रयुक्ता भ्रुकुटिर्येन तं निजोद्धतआत्मगर्वगविष्ठम्, तमग्रज रामं युधिष्ठिरं भीमं च अन्वग् अनुगामि यथा स्यात्तथा अरातीनां घाताय व्रजन् सन् दुर्धरो विक्रमकाल: पौरुषसमय एव साधनं सैन्यं यस्य सलक्ष्मणोऽर्जुनश्च, अमर्ष क्रोधम् अन्वग्वजन्नुद्योग इव, अद्युतत् ॥ उपमा ॥ सर्गेऽस्मिन्वंशस्थवृत्तम् ॥ कृतातिपातावधिको समुद्धतौ हतावधी चापनयावलम्बिनौ । उभौ न्यरुद्धां निवहं विरोधिनां तमर्थकामाविव धर्मसंग्रहम् ॥ २ ॥ कृतेति ॥ कृतोऽतिपात उपप्लवो याभ्याम् , अधिकौ क्षात्रधर्मेण सर्वेभ्यः, आत्मतेजसा समुद्धतौ, हतोऽतिक्रान्तोऽवधिर्मर्यादा ययोः, चापनये धनुर्विद्यायामवलम्बोऽभिमानो ययोस्तादृशौ उभौ रामलक्ष्मणौ भीमार्जुनौ च तं विरोधिनां निवहं समूहम्, अपनयमनीतिमवलम्बमानौ अर्थकामौ धर्मसंग्रहमिव, न्यरुद्धाम् ॥ उपमा ॥ जयश्रियं दक्षिणमंसमंसलौ तनुं महावेगमहंयुतं मनः । शरासनं ज्यां नृपती भयं रिपुं समं समारोपयतः स्म संयति ॥ ३ ॥ जयति ॥ अंसलौ पीनस्कन्धौ, नृपती रामलक्ष्मणौ भीमार्जुनौ च, दक्षिणमंसं जयश्रियम्, तनुं महावेगम् , मनः अहंयुतमहंकारम्, शरासनं ज्याम, रिपुं भयम्, सममेककालम् संयति सङ्ग्रामे समारोपयतः स्मः ॥ गत्यर्थत्वेन द्विकर्मकता ॥ समुच्चयः ।।
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy