SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५ सर्गः ] द्विसंधानम् । उत्कीर्णा इति ॥ मदजलनिर्झरं मदमेव सलिलप्रस्रवणम् । मदेन तुल्यं सलिलोत्सं च, वहन्तो धारयन्त उन्नताः क्रोधाग्निज्वलितदृशः क्रोधरूपाग्निना ज्वलिता दृकू येषां ते क्रोधतुल्यमग्निज्वलितं दावानलज्वालैव दृग् येषां तादृशश्च, सहेमकक्ष्याः ससुवर्णगण्डाः सह हेम्नः कक्ष्यया मध्यदेशबन्धनोपयुक्तरज्ज्वा हर्म्यादिप्रकोष्ठेन च । भूभृतो हि भूभृन्मध्ये दुर्गहर्म्यादि रचयन्ति । नागा गजा गजानामाकारैः उत्कीर्णा उल्लिखिताः कुलपर्वता इव प्रतिदिशं धावन्ति ॥ उत्प्रेक्षा ॥ प्रहर्षिणी वृत्तम् ॥ सामजा मदवशान्मतिहीना वक्रमङ्कुशमृजुं युधि चक्रुः । प्रायशः परिजहाति जनोऽयं तीव्रमेव समुपेत्य शठत्वम् ॥ ६६ ॥ ५५ सामजा इति ॥ मदवशात् मतिहीना बुद्धिहीनाः सामजा गजा युधि वक्रमपि अङ्कुशं ऋजुं चक्रुः । अयं जनः प्रायश: बाहुल्येन शठत्वं समुपेत्य संप्राप्य तीव्रमेव नितान्तमेव परिजहाति ॥ अर्थान्तरन्यासः । स्वागतावृत्तम् ॥ मुखकृतकपटाः प्रमत्तचित्ताः परुषरुषश्चरणेषु सत्स्वखिन्नाः । गुरुकुलमतिचक्रमुः कुशिष्या हितमिव संयति संयतं गजेन्द्राः ॥ ६७ ॥ मुखेति ॥ मुखकृतकपटाः मुखे कृत आलानाय हस्तिनीमूत्र सार्द्रवस्त्रनिर्मित हस्तिन्युपन्यासरूपः कपटो येषाम्, मुखे गुरुमुखे कृतं कपटं कौटिल्यं यैस्तादृशश्च । प्रमत्तचित्ता उन्मादिचेतस्काः सप्रमादहृदयाश्च । परुषरुषः निष्ठुररोषाः । च पुना रणेषु सङ्ग्रामेषु कलहेषु च सत्सु अखिन्ना अश्रान्ताश्च । यद्वोपमानविशेषणेषु सत्सु शास्त्रसंमतेषु चरणेषु चारित्रोपदेशेषु परुषरुषः गजेन्द्राः कुशिष्या इव संयतं प्रयत्नायत्तं वचनचरणसंकेतं आत्मनिष्ठं च, हितम् अव्यभिचारि सुखकारि च, गुरुकुलं महामात्रसमूहं सूरिसंदोहं गुरुवंश वा, संयति सङ्ग्रामे तपसि च अतिचक्रमुः । अतिक्रामन्ति स्म ॥ श्लेषः ॥ पुष्पिताग्रावृत्तम् ॥ उभयपार्श्वगतान्निशिताञ्शराञ्शयुसमेन करेण विपाटयन् । गजगणः शुशुभे व्रणगह्वरैः सपदि सौध इवामलजालकैः ॥ ६८ ॥ उभयेति ॥ गजगणो हास्तिकं शयुसमेन अजगरतुल्येन करेण शुण्डादण्डेन उभौ पार्श्वो गतान् प्राप्तान् निशितान् तीक्ष्णान् शरान् विपाटयन् उत्पाटयन् सन् सपदि शीघ्रं व्रणगह्वरैः अरुश्छिद्रैः सौधः अमलजालकैर्निर्मलगवाक्षजालैरिव शुशुभे ॥ उपमा ॥ द्रुतविलम्बितं वृत्तम् । इति स पृतनां दृष्ट्वाविद्यामिव प्रतिबन्धिनीं जलनिधिरिव क्षुभ्यँलक्ष्मीधरोऽनुगताऽग्रजम्भः
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy