________________
काव्यमाला।
स्वयामिति ॥ शरासनानि धनूंषि स्वयं समानम्य नम्रीभूय स्तम्भं स्तब्धतां हित्वा मधुरं यथा स्यात्तथा ध्वनन्ति नदन्ति सन्ति अन्यान् विनतान् विधातुं प्रारेभिरे । खलु यतः विनम्राः परान् नामयन्ति । अर्थान्तरन्यासः ॥
ऋजुप्रकारेषु गुणेषु बाणाः शल्यं वहन्तो दधतो विपक्षान् । क्षणं न तस्थुश्चपलाः स्थिरेषु वाताः खलानामिव सज्जनेषु ॥ ६०॥
ऋज्विति ॥ बाणाः शल्यं दधतो विपक्षान् वहन्तः कुर्वन्तः चपला ऋजुप्रकारेषु स्थिरेषु गुणेषु मौर्वीषु सजनेषु खलानां वाताः समूहा इव क्षणं न तस्थुः ।। विशेषणयोगो यथासंभवम् ॥ उपमा ॥
समुद्गिरन्तो नु शफान्मुखेभ्यश्छायां त्यजन्तः किमु पश्चिमार्धम् । देहान्क्षिपन्तो नु दृशां पुरस्ताद्विश्वेऽपि तेऽश्वल्लिषुरश्ववर्याः ॥ ६१ ॥
देहानिति ॥ शफान्खुरान् मुखेभ्यः समुद्गिरन्तः किम्, छायां पश्चिमार्ध पश्चिमभागे त्यजन्तः किम् , दृशां पुरस्ताद्देहान् क्षिपन्तः किमिति वितर्कमानयन्तोऽश्ववर्या अश्वल्लिषुः आशुगतवन्तः ।। उत्प्रेक्षा ॥ रुद्धं शिलोत्कीर्णमिवावतस्थे मुक्तं चलं चित्तमिवाभ्यधावत् ।
अश्वीयमावर्तितमावृतत्तत्कुलालचक्रभ्रमलाघवेन ॥ ६२ ॥ रुद्धमिति ॥ तत् लोकप्रसिद्धम् अश्वीयमश्वसमूहो रुद्धं सत् शिलायामुत्कीर्णमिवावतस्थे, मुक्तं सत् चञ्चलं चित्तमिवाभ्यधावत् , आवर्तितं सत् कुलालचक्रभ्रमलाघवेन आवृतत् बभ्राम ॥ उपमा ॥
रम्याः पदार्था इव मानसानि स्वान्तानि जीवानिव जन्तवोऽपि । देहानिवात्याचकृषुस्तुरंगाः स्कन्धान्तरन्यस्तयुगा रथौघान् ॥ ६३ ॥ रम्या इति ॥ स्कन्धान्तरे न्यस्तो युगो यैस्ते तुरंगा रथौघान् रम्याः पदार्था मानसानीव, स्वान्तानि जीवानिव, जन्तवो देहानिव, अत्याचकृषुः । उपमा ।।
नामाददानैः परुषं परेषां निषादिभिः संख्यशिरस्यसंख्याः । प्रासाः पतन्तोऽत्यशुभन्विमुक्ता विन्ध्यस्य वंशा इव वातधूताः ॥ ६४ ॥ नामेति ॥ परेषां शत्रूणां परुषं कर्कशं यथा स्यात्तथा नाम आददाननिषादिभिरश्ववारैविमुक्ता असंख्या अगणनीया संख्यशिरसि सङ्ग्राममस्तके पतन्तः प्रासाः सेल्ला यष्टयः, वातधूता विन्ध्यस्य वंशा इव, अत्यशुभन् ॥ उत्प्रेक्षा ॥ उत्कीर्णा इव कुलपर्वता गजानामाकारैर्मदजलनिसरं वहन्तः । धावन्ति प्रतिदिशमुन्नताः स्म नागाः क्रोधाग्निज्वलितदृशः सहेमकक्ष्याः ६५