________________
५ सर्गः ]
द्विसंधानम् ।
शङ्खा निनेदुः पटहाश्चुकूजुर्गजा जगर्जुस्तुरगा जिहेषुः । वीरा ववल्गुः शकटा विरेसुरासीदकूपाररवः समन्तात् ॥ ५४ ॥ शङ्खा इति ॥ अकूपाररवः समुद्रघोष इव ॥ समुच्चयः ॥ बभुः पुराणाः स्फुटिता भटानां व्रणा रणानन्दथुनिर्भरेण । स्वामिप्रसादानसहा निरोद्धुं देहाः स्वयं भेदमिवाभ्युपेयुः ॥ ५५ ॥
५३
बभुरिति ॥ भटानां योधानां पुराणाः पुरातना व्रणा अरूषि रणानन्दथुनिर्भरेण संग्राम हर्षाधिक्येन स्फुटिताः सन्तो बभुः शोभन्ते स्म । स्वामिप्रसादान् प्रभुसत्कारान् निरोद्धुं कर्तुम् असहा असमर्था देहाः कायाः स्वयमात्मना भेदम् अभ्युपेयुरिव ॥ उत्प्रेक्षा ॥ सूता नृपाणां युधि नामधेयं वृत्तं निषेदुः कृतवृत्तबन्धम् । दग्धानि कर्पूररजांसि भूपाः स्ववर्मणोऽन्तश्चकरुः श्रमार्ताः ॥ १६ ॥ सूता इति ॥ सूता बन्दिजनाः युधि संग्रामे नामधेयं नाम्ना धेयं नामगर्वितं कृतवृत्तबन्धं कृतछन्दोविशेषरचनं वृत्तमाचरितं निपेठुः पठितवन्तः । श्रमार्ताः श्रमपीडिताः सङ्ग्रामायाससंतप्ताः भूपा राजानः स्ववर्मणः आत्मीयसंनहनस्य अन्तर्मध्ये दग्धानि चूर्णी - कृतानि कर्पूररजांसि घनसाररेणून् चकरुविक्षिप्तवन्तः ॥ समुच्चयः ॥
विशुद्धवंशानि गुणानतानि प्रपीड्यमानान्यपि कार्मुकाणि । पर्यङ्कमारोप्य विलालितानि मित्राणि मत्वेव कृतं विनेमुः ॥ ९७ ॥
विशुद्धवंशेति ॥ विशुद्धवंशानि अवक्रमस्कराणि पूतान्वयानि च । गुणानतानि मौर्वीनम्रीकृतानि शौर्यौदार्यादिनश्रीभूतानि च । प्रपीड्यमानानि ताडितानि अपि कार्मुकाि धनूंषि, कृतं करणीयं मत्वा पर्यङ्कं शय्याम् आरोप्य, विलालितानि मित्राणि सुहृद इव विनेमुः विनमन्ति स्म ॥ श्लेषः ॥
वश्यानि मुष्टेरगतानि भेदं धनूंषि नम्राणि विपत्क्षमाणि ।
स्वदेहलीनां स्थितिमत्यजन्ति नृणां कलत्राणि हितान्यतीयुः ॥ १८ ॥ वश्यानीति ॥ मुष्टेः करतलाङ्गुलिबन्धस्य, आज्ञायाश्चावश्यानि वशं गतानि । भेदं भङ्ग पृथक्त्वं च अगतानि अप्राप्तानि । नम्राणि । विपत्क्षमाणि आपत्समर्थानि । स्वदेहलीनामात्मशरीरसंश्लिष्टां स्वकीयमन्दिरकुतुपानां च । स्थितिमवस्थानं मर्यादां च । अत्यजन्ति । हितानि हितजनकानि । धनूंषि कार्मुकाणि नृणां पुरुषाणां कलत्राणि कुलकामिनीरतीयुरतिक्रान्तवन्ति ॥ श्लेषः ॥
स्वयं समानम्य शरासनानि स्तम्भं च हित्वा मधुरं ध्वनन्ति । प्रारेभिरेऽन्यान्विनतान्विधातुं परान्विनम्राः खलु नामयन्ति ॥ ५९ ॥