________________
काव्यमाला |
विश्लेषणमिति ॥ विश्लेषणं वियोजनं विसंधि च संधिकार्य संयोजनं संहिताकार्ये च विग्रहं कलहं वृत्त्यर्थावबोधकवाक्यं च, समस्तसंस्थां सकलव्यवस्थां समस्तकारकक्रियादिस्थिति च तद्धितार्थ हितजनकं तत् तद्धितानामर्थे च ॥ स कामः प्राथमिकच्छात्र इव जातः ॥ षोपमा ॥
स रोपणान्पञ्च मयि प्रयुज्य शेषं जनं हन्ति तु चापयष्ट्या । संतापको नो घटको मनोभूरयस्कृतो बाल इवेति दध्यौ ॥ ११ ॥ सरोपेति ॥ स कामः, लोहकारबालक इव संतापक एव नतु घटक इति शूर्पणखा कीचकच दध्यौ ॥ श्लेषोपमा ॥
४४
तस्याविशेषेण कृताभिलाषात्तापेन गण्डूषविमुक्तमम्भः ।
शुचौ करेणोरिव दारणेन मूषागतं ताम्रमिवोष्णमासीत् ॥ १२ ॥ तस्येति ॥ तस्याः शूर्पणखाया विशेषतः शुचौ ग्रीष्मे करेणोर्हस्तिन्या इव गण्डूषविमुतमम्भः मूषागतं ताम्रमिव उष्णम् आसीत् ॥ भारतीयपक्षे – तस्य कीचकस्य अविशेषतः ॥ षोपमा ॥
तस्यावतंसोत्पलपत्रमैत्रीं गतैः कटाक्षैर्विवशान्तरात्मा ।
नाजीगणन्मानमसौ कुलं वा कामातुराणां हि कुतो विवेकः ॥ १३॥
तस्येति । असौ शूर्पणखा तस्य लक्ष्मणस्य अवतंसोत्पलपत्रमैत्री कर्णभूषणकमलदलसादृश्यं गतैः प्राप्तैः कटाक्षैः स्वाभाविकनेत्रविकारै: विवशान्तरात्मा विह्वलान्तरा सती मानं कुलं वा न अजीगणत् ॥ हि यतः कामातुराणां विवेकः कुतः ॥ भारतीयपक्षे - असौ कीचकः तस्याः द्रौपद्या वतंसेत्यत्र 'अवाप्योरुपसर्गयोः' इत्यकारलोपः) ॥ षार्थान्तरन्यासौ ||
तत्रैव चेतोनयनेन्द्रियेषु स्थितेषु दूतेष्विव लोभितेषु ।
जातेषु चान्तःप्रकृतिक्षतेषु देहावशेषेण कथंचिदस्थात् ॥ १४ ॥
तत्रैवेति ॥ चेतोनयनेन्द्रियेषु तत्रैव लक्ष्मण एव लोभितेषु दूतेषु इव स्थितेषु सत्सु च पुनः अन्तःप्रकृतिक्षतेषु अन्तरङ्गस्वभावनाशेषु अन्तः प्रकृतौ क्षतेषु जातेषु देहावशेषेण शरीरावशेषतः कथंचित् महता कष्टेन ( शूर्पणखा ) अस्थात् ॥ भारतीयपक्षे - तत्रैव द्रौपद्यामेव (कीचकः) ॥ श्लेषः ॥
ततश्चकाङ्क्ष स्मरमोहहेतुं बलाद्रहीतुं सविशीर्णचेताः । तान्तादयुक्तस्थितिरेत्य सान्तं नाशे हि जन्तुं मतिरप्यपैति ॥ १५ ॥ तत इति ॥ ततः सविशीर्णचेताः विदीर्णचेतसा सहिता, तान्ता क्षीणा । सान्तं सायाः शोभाया अङ्गलावण्यस्य अन्तं विनाशम्, एत्य प्राप्य अपयुक्तस्थितिरन्यायमार्गप्र