________________
५ सर्गः]
द्विसंधानम् ।
वा यतः-अस्थानकृतप्रयासा नश्यन्त्येव ॥ भारतीयपक्षे-असौ द्रौपदी इच्छातिभङ्गेन 'तावदिमां संभोक्ष्यामि पश्चाद्विरस्यामि' इति वाञ्छाया भञ्जनभयेन रन्तुकामं निघ्नं पर. दारायत्तं नियमे व्रते न सक्तं तं कीचकं तेन विलासभावेन स्वस्थं स्वस्थचित्तं न चकार ॥ श्लेषार्थान्तरन्यासौ ॥
सुरासुरातिक्रमविक्रमस्य दशास्यनामोद्वहतः स्वसारम् ।
सुतापयोगादभवत्सुदुःखा कामेषुभग्नेषु कुतः सुखं वा ॥ ६ ॥ . सुरेति ॥ सुरासुरातिक्रमविक्रमस्य देवदानवोल्लजिप्रतापस्य दशास्यनाम दशानननाम उद्वहतो दधतो रावणस्य स्वसा शूर्पणखा सुतापयोगात् पुत्रवियोगादरमत्यर्थे सुदुःखा. भवत् ॥ यतः कामेष्वभिलषितेषु भग्नेषु सुखं कुतः ॥ भारतीयपक्षे-सुरासुरातिक्रमविक्रमस्य सु अतिशयेन राः 'रै शब्दे' इति धातुनिष्पन्नत्वात्प्रकरणाच्च प्रलापशब्दौ यस्याः सा सुरा तादृशी सुरा मदिरा तस्याः सकाशादतिक्रमो निरस्तो विक्रमो यस्य स्वसारं सुछु असारं कीचकं तस्य सच्छिद्रत्वात् । नाम उद्वहतः अस्य दशा सुतापसंबन्धात् सुदुःखा अभवत् ॥ श्लेषार्थान्तरन्यासौ ॥
वैरन्तुकामं समुपेत्य रूपं तदीयमालोक्य च विभ्रमन्तम् ।
इयाय संमोहनमन्तरेऽस्मिन्विव्याध बाणैर्मकरध्वजोऽपि ॥ ७ ॥ ___ वैरेति ॥ सा शूर्पणखा वैरं (सुतमारोन) समुपेत्य तस्य लक्ष्मणस्येदं रूपं विभ्रमन्तं पर्यटन्तं तं लक्ष्मणं च आलोक्य कामं यथेष्टं संमोहनं वैचित्यमियाय । अत्रान्तरे मकरध्वजः कामो बाणैर्विव्याध ॥ भारतीयपक्षे-संमोहनं कर्ट वै निश्चयेन रन्तुकामं समुपेत्य तदीयं द्रौपदीयं रूपमालोक्य विभ्रमन्तमितस्ततः पर्यटन्तं तं कीचकम् इयाय ॥ श्लेषः ॥
निश्वासमुष्णं वचनं निरुद्धं म्लानं मुखालं हृदयं सकम्पम् । .
श्रमादिवाङ्गं पुलकप्रसङ्गं पदेपदेऽसौ बिभरांबभूव ॥ ८ ॥ निःश्वासेति ॥ असौ शूर्पणखा कीचकश्च (कामपीडातः) पदे पदे श्रमादिव उष्णं निःश्वासं निरुद्धं वचनं म्लानं मुखसरोजं सकम्पं हृदयं पुलकयुक्तमङ्गं बिभरांबभूव ॥ उत्प्रेक्षा ॥ . श्वासानुबन्धात्परितापहेतोर्बाष्पानुपातान्मदनस्य पौष्पाः।
शरा नु वाताग्निजलात्मकाः स्युरिति क्षणं चिन्तयति स्म कंचित् ९ श्वासति ॥ असौ शूर्पणखा कीचकश्च मदनस्य पौष्पा अपि शरा नासावातानुषङ्गात् संतापहेतोरभुजप्रपतनात् कारणाद् अनिलानलजलात्मकाः स्युः इति कंचित्क्षणम् अचिन्तयत् ॥ स्वभावाख्यानम् ॥
विश्लेषणं वेत्ति न संधिकार्य स विग्रहं नैव समस्तसंस्थाम् । प्रागेव वेवेक्ति न तद्धितार्थ शब्दागमे प्राथमिकोऽभवद्वा ॥ १०॥