________________
४२
काव्यमाला।
माश्रमं वा, वनं कान्तारं देशं विषयं तीर्थे च अतीत्य अतिक्रम्य गूढः संवृतः सन् दण्डकलक्षितां दण्डकसंज्ञां भूमिम् आट गतवान् ॥ भारतीयपक्षे-प्रदीप्त्या प्रतापेन गूढः संवृतः कोदण्डकलक्षितांसः धनुर्लक्षितस्कन्धः स स्फीतां विख्यातां विराटभूमिम् आर॥ श्लेषः॥ सर्गेऽस्मिन्वृत्तमुपजातिः ॥
विहाय चापव्यवहारमुग्रं यथानियोगं प्रयतोजितात्मा ।
निरूप्य तस्यां सकुलायभूमि योगीव कंचित्समयं निनाय ॥ २ ॥ विहायेति ॥ स राजा तस्यां भूमौ उग्रं तीव्रम् अपव्यवहारं विहाय कुलाय भ्रात्रुद्देशे न भूमि निरूप्य निवेद्य यद्वा कुलायाय नीडाय भूमि निर्णीय, यथानियोगं यथापिटनिदेशं यथाप्रतिज्ञं च प्रयतो यतात्मा जितात्मा जितेन्द्रियः सन् योगीव कंचित्समयं निनाय ॥ योगिपक्षे-यथानियोगं यथाशास्त्रम् ॥ भारतीयपक्षे-अजितात्मा अजितेन्द्रियो द्यूतव्यसनोपहतः ॥ श्लेषः ॥
विरामभूमिः कमनीयतायाः कृष्णोदयानां विनिवासहेतुः ।
समाययौ कामनिवेशमूर्तिस्तत्राभिमुख्यं किल कीचकस्य ॥ ३ ॥ विरामेति ॥ कमनीयताया मनोहरताया विरामभूमिर्विश्रामभूमिर्दयानां करुणानां विनिवासहेतुः स्थितिकारणं कामनिवेशमूर्तिः कंदर्पस्थितिशरीरः कृष्णो लक्ष्मणस्तत्र भूमौ कीचकस्य वेणोराभिमुख्यं समाययौ ॥ भारतीयपक्षे–कृष्णा द्रौपदी उदयानां विनिवासहेतु: कीचकस्य तदाख्यनृपस्य ॥ श्लेषः ॥
विलासभावेन विलम्बमानं निस्त्रिंशमत्राहृतसूर्यहासम् ।
असौ निजग्राहमहोद्धतिस्तं पुण्यैकरूपेण वशं हि सर्वम् ॥ ४ ॥ विलासेति ॥ निजग्राहमहोद्धतिनिजेन प्राहेण महोद्धतिर्यस्यासौ लक्ष्मणो विलासभावेन वीनां पक्षिणां लासः क्रीडा यत्र तस्य भावेन गगनसमुदायेन विलम्बमानं सूर्यहासं तदाख्यं तं प्रसिद्धं निस्त्रिंशं खड्गम् अत्रावसरे आहृत ॥ पुण्यैकरूपेण सर्व वशमात्माधीनं यतो जायते ॥ भारतीयपक्षे-महोद्धतिर्महे उत्सवे उद्धतिर्यस्या असौ द्रौपदी निस्त्रिंशं निर्दयम् , आहृतसूर्यहासम् आहृतो लुप्तः सूर्यस्य हासो दीप्तिर्येन तं तिरस्कृतरविप्रतापं तं कीचकनृपं विलासभावेन कटाक्षपातेन विलम्बमानं विशेषेण लम्बमानं क्रीडां कर्तुं त्वरयन्तं निजग्राह ज्ञातवती ॥ अर्थान्तरन्यासः ॥
इच्छातिभङ्गेन नरन्तुकामं तं तेन निघ्नन्नियमेन सक्तम् ।
वस्थं परं ज्योतिरसौ चकार नश्यन्ति वास्थानकृतप्रयासाः ॥५॥ इच्छेति ॥ परं ज्योतीरूपोऽसौ लक्ष्मणः इच्छातिभङ्गेन 'मूलावशेषमिदं वंशजालमनेन खड्न छिनमि' इति वाञ्छातिभञ्जनेन तं वंशजालं तेन खङ्गेन निघ्नन् संछिन्दन् सन् नियमेन व्रतेन सक्तं संबद्धं नरं शूर्पणखापुत्रं शम्बुकुमारं कामं स्वस्थं स्वर्गस्थं चकार ॥