________________
५ सर्गः]
द्विसंधानम् । वृत्तिः शूर्पणखा स्मरहेतुभूतं कामवैचित्यकारणं लक्ष्मणम् बलाद्रहीतुं चकास ॥ हि यतः नाशे नाशकाले जन्तुं प्राणिनं मतिर्बुद्धिरपि अपैति त्यजति । भारतीयपक्षे-विशीर्णचेताः तापयुक्तस्थितिः स कीचकः तां द्रौपदीम् ॥ श्लेषार्थान्तरन्यासः॥
आकारमादाय विनीतवेषं शृङ्गारमारोप्य यथाभिजातम् । कथंचिदम्येत्य कृतावगूढं प्रचक्रमे वक्तुमिति प्रसन्नम् ॥ १६ ॥ आकेति ॥ यथाभिजातमवसरोचितं कृतावगूढं किंचिल्लोचने चरणौ च बहिःकृतशरीरावरणं यथा स्यात्तथा प्रसन्नं यथा स्यात्तथा ॥
जानामि किंचित्रपया न वक्तुं विवक्षितं सूचयति व्यवस्था ।
सत्यां कियत्यामपि संवृतौ हि दुःखं सुखं वा निगदन्ति चेष्टाः१७ जानामीति ॥ कियत्यामपि संवृतौ सत्यां चेष्टा दुःखं सुखं वा निगदन्ति ॥ अर्थान्तरन्यासः ॥
श्रव्याणि वाचालतयैव तन्व्या त्वया मयोक्तानि मनीषितानि । गवाक्षनालीकृतचेतसो मे स्मरस्य बाणैः शरणं भव त्वम् ॥ १८ ॥ श्रव्याणीति ॥ तन्व्या मया र्पणखया मनीषितानि अभीप्सितानि यानि वाचालतयैव उक्तानि तानि त्वया लक्ष्मणेन व्याणि । स्मरस्य बाणैः गवाक्षजालीकृतचेतसः छिद्रीकृतान्तःकरणस्य मे शरणं त्वं भव ॥ भारतीयपक्षे-यानि मया कीचकेन मनीषितानि वाचालतयोक्तानि तानि तन्व्या त्वया द्रौपद्या श्रव्याणि ॥ श्लेषः ॥
शाङ्ग पिनाकं धनुरिन्द्रचापं दिव्यं वहन्तोऽपि न जेतुमीशाः ।
शरासनं पौष्पमयं दधानस्त्रैलोक्यमालीढगतं करोति ॥ १९ ॥ शामिति ॥ दिव्यं शार्ङ्ग पिनाकं धनुरिन्द्रचापं वहन्तो दधतोऽपि हरिहरसुरेन्द्रास्त्रैलोक्यं जेतुं न ईशाः समर्थाः ॥ अयं स्मरः पौष्पं शरासनं धनुर्दधानस्त्रैलोक्यं त्रिभुवनमालीढगतमालीढाख्यस्थानकविशेषमध्यवर्ति करोति ॥
त्वां जीविकाकृत्य निदेशमिच्छं प्रतीच्छ मां भक्तियुजं दयात्मा ।
तवास्मि दासीवशवर्तिनी मे त्वयि स्थितं जीवितमित्यवेहि ॥२०॥ त्वामिति ॥ हे लक्ष्मण, दयात्मा दयालुस्त्वं त्वां भवन्तं जीविकाकृत्य जीविकामिव कृत्वा निदेशमादेशमिच्छुमिच्छन्ती भक्तियुजं सेवापरां मां शूर्पणखां प्रतीच्छ स्वीकुरु । अहं तव भवतो वशवर्तिनी आज्ञाविधायिनी दासी चेटी अस्मि । मे मम जीवितं जीवन त्वयि स्थितमित्यवेहि ॥ भारतीये-त्वां द्रोपदीम् । इच्छुमिच्छन्तम् । भक्तियुजं सेवापरम् । दासी इवेत्यध्याहार्यम् ॥ श्लेषः ॥
संभाषणेनापि न मे विषादं विषादभावेन जिहीर्षसि त्वम् । . नाभाषणं कल्पतरोस्तवापि फलान्तरायाय हि कल्पयन्ति ॥ २१ ॥