________________ 226 काव्यमाला / शमकृतौ प्रजानां शमं कुरुतस्तथोक्तौ इन्द्रस्तुतौ तौ लोकप्रतीतौ जैनौ जिनदेवसंबन्धिनौ, चरणौ रत्या प्रीत्या अस्तुत स्तुतिं कृतवान् // शार्दूलविक्रीडितं छन्दः // नीत्या यो गुरुणा दिशो दशरथेनोपात्तवान्नन्दनः __श्रीदेव्या वसुदेवतः प्रतिजगन्न्यायस्य मार्गे स्थितः / तस्य स्थायिधमजयस्य कृतितः प्रादुष्षदुच्चैर्यशो __ गाम्भीर्यादिगुणापनोदविधिनेवाम्भोनिधील्लङ्घते // 146 // . इति श्रीधनंजयकविविरचिते धनंजयाङ्के द्विसंधानकाव्ये राघवयादवपाण्डवानां निष्कण्टकराज्यप्राप्तिवर्णनो नामाष्टादशः सर्गः // नीत्येति // यो नन्दनः पुत्रो गुरुणा पित्रा दशरथेन सह प्रतिजगत् प्रतिलोकम् अ. वतः पालयतो न्यायस्य वसुदे द्रव्यदातरि मार्गे स्थितः सन् श्रीदेव्या श्रिया दीव्यति विलसति तादृशा नीत्या दिश उपात्तवान् गृहीतवान् स्वाधीनीकृतवान् तस्य लक्ष्मणस्य स्थायिधनमनश्वरधनं यशः जयस्य कृतित: करणात् प्रादुष्यत् प्रचुरीभवत् उच्चैरतिशयेन गाम्भीर्यादिगुणापनोदविधिना तदीयगाम्भीर्यादिगुणानामन्यत्रप्रकाशनविधानेनेव तेषामपनोदाय दूरीकरणाय अन्यस्य तादृशगुणवतो मार्गणविधानेनेव वा अम्भोनिधीन्समुद्रान् लङ्घते / आभूमण्डलव्यापि तस्य यश इति भावः // भारतीयपक्षे-यः वसुदेवतः प्रति वसुदेवप्र. तिनिधिः श्रीदेव्या शोभया लक्ष्म्या मन्दनः समृद्धो जगन्यायस्य लोकनीतेर्मार्ग स्थितः सन् नीत्या गुरुणा महता रथेन च दश दिश उपात्तवान् / तस्य श्रीकृष्णस्य स्थायि स्थिरं धनंजयस्यार्जुनस्य कृतितः कर्मणः [तत्सहायेनैवार्जुनस्य दुःखनिवृत्तेः] प्रादुष्षत् प्रचुरीभवत् यशः इत्यादि समानम् // ग्रन्थकर्तपक्षे-यः श्रीदेव्या मातुनन्दनः पुत्रो वसुदेवतः प्रति वसुदेवस्य पितुःप्रतिनिधिः। जगन्यायेऽस्य लोकनीतेर्मार्गे स्थितः सन् गुरुणा दशरथेन / [हेतौ तृतीया।] नीत्या नीतेर्दिश उपदेशान् उपात्तवान् / तस्य धनंजयस्य कवेः कृतितः काव्यकरणतः प्रादुष्षत् स्थायि यशः / अन्यत् सिद्धम् // इति श्रीमथुरातः पश्चिमे पुष्करतः पूर्व अवन्तिकात उत्तरे कुरुक्षेत्रतो दक्षिणे मध्यरेखातोऽर्धपलधने देशे सकलनगरातिशोभिनि जयनगरे वास्तव्येन श्रीमन्महाराजाधिराजश्रीसवाईरामसिंहप्रतिष्ठापितश्रीमन्महाराजाधिराजश्रीसवाईमाधवसिंहजीप्रतिपाल्यमानजयनगरीयसंस्कृतपाठशालास्थत्रयोदशाध्यापकान्तर्गततामापनेन दाधीचवर्यकौत्सगोत्रकुद्दालोपनामकपण्डितवर्यश्रीराधाकृष्णात्मजसाहेबरामात्मजानन्तरामात्मजछोटीलालात्मजबदरीनाथेन विनयचन्द्रान्तेवासिनेमिचन्द्रोपकल्पितप्राचीनपदकौमुदीनामकटीकातो गृहीतसारायां द्विसंधानव्याख्यायां राघवपाण्डवयादवानां वैरिरावणकौरवजरासंधवधपूर्वकनिष्कण्टकराज्यप्राप्तिकथनो नामाष्टादशः सर्गः //