________________
१८ सर्गः] द्विसंधानम् ।
२२५ अर्थेति ॥ स विष्णुः काले यथोचितावसरे करणमात्रिकान् अधिकारिणोऽर्थानपेक्षान् उत्कोचादिशुद्धान् , पौरानगरवासिनोऽङ्गहारानर्तकान् निःस्पृहान् , नम्रीभवच्चरण. नितम्बहस्तान् अद्राक्षीत् ॥
ततसारतमास्थासु सुभावानभितारधीः । धीरताभिनवाभासु सुस्थामा तरसातत ॥ १४३ ॥
(गतप्रत्यागतम्) ततेति ॥ अभितारधीः अभिगता तारा धीर्यस्येति सकलशास्त्ररसरसिकबुद्धिः, सुस्थामा बलीयान् स विष्णु: धीरतानिनवाभासु निःक्षोभतरुणप्रतापासु ततसारतमास्थासु विस्तृतसारतमप्रतिज्ञासु सुभावान् सुष्टुपरिणामान् आतत विस्टतवान् ॥
क्षयलोभविरागहेतवः प्रकृतीनामभवन्न यत्र यः ।
रिपुमध्यकृतास्य केवलं परवध्वः परकीयतां ययुः ॥ १४४ ॥ क्षयेति ॥ यत्र विष्णौ राजनि सति प्रकृतीनां दुर्गधर्मकर्माध्यक्षसेनापतिपुरोहितमत्रिदैवज्ञलक्षणानां क्षयलोभविरागहेतवः क्षयो बलाभावः, लोभः सर्वपदार्थेषु स्पृहा व्यामोहो वा, विरागोऽनुरागाभावः, त एव हेतवो न अभवन् । क्षीणा हि प्रकृतिरकिंचित्करा जायते पतिं प्रसते लुब्धाहिरपत्यमिव, विरक्ता राज्यसमापनाय जायते इति । एतेन राजनि प्रकृतिस्वाधीनता कथिता । तथा यो विष्णू रिपुं शत्रुम् अध्यकृत स्वाधीनीकृतवान् । केवलम् अस्य विष्णोः परवध्वः शत्रुनार्यः परकीयतां पराधीनतां ययुः, तत्पतीनां मृतत्वात्कारागृहपतितत्वाद्वा । अन्ये तु केऽपि न पराधीना बभूवुः ॥ वैतालीयं छन्दः ॥
चम्वाजिस्थिरया धरानमननिश्चिन्तस्थितोऽनश्चर
प्रज्ञान स्थिति कर्मजातमवनिस्वामी सुखानां कृते । मत्वामा सचिवैरिहत्यमवसि स्थानं सतामर्चितौ
तौ जैनौ चरणौ प्रजाशमकृतौ रत्यास्तुतेन्द्रस्तुतौ ॥ १४५ ॥ चम्वेति ॥ आजिस्थिरया सङ्ग्रामस्थिरया चम्वा सेनया धरानमननिश्चिन्तस्थितो मेदिन्या नमनेन प्रवीभवनेन पूर्व निश्चिन्तः पश्चास्थितो अवनिस्वामी भूपतिर्विष्णुः प्रज्ञानस्थिति प्रकृष्टज्ञानेन स्थितियंत्र तादृशं कर्मजातं कार्यसमूहम, अनः प्राणनं सोल्लासं यथा भवति तथा चरन्ननुभवन् सन् सचिवैरमात्यैः अमा सह मत्वा विमृश्य सुखानां कृते करणाय, इहत्य मिहलोकोद्भवम्, अवसि न वासयति तच्छीलम् । संज्ञापूर्वकत्वान्न वृद्धिः । 'वस स्नेहच्छेदापहरणेषु' । अक्षयं सतां सत्पुरुषाणां स्थानमास्पदम् आश्रयणीयं सतां सत्पुरुषाणाम् अर्चितौ पूजितौ । 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तप्रत्यये तत्कर्तरि 'क्तस्य च वर्तमाने' इति षष्ठी । सतामित्यस्य मध्यमणिन्यायेनोभयत्र संबन्धः । प्रजा
२१