________________
२२४
काव्यमाला ।
निजतो हि धराराधी सदा नाम रवी रुचा । वेधसा जनितो भूयो योगे वेगनयेन सन् ॥ १३८ ॥ सन्नयेन गवे गेयो यो भूतो निजसाधवे । चारुवीरमना दासधीराराधहितोऽजनि ॥ १३९॥
(प्रतिलोमानुलोमैकद्वैतम्)
निजेति ॥ वेधसा ब्रह्मणा सदा धराराधी धरां राध्यति भूमिवर्धको धरां रानोति भूमिसंसिद्धिकारको रुचा कान्त्या रविः सूर्यः सन् सज्जनो विष्णुर्भूयः पुनर्निजत आत्मीयेन वेगनयेन योगे समाधौ हि स्फुटं जनितोऽजनि नाम अहो ॥
सन्नयेनेति ॥ यः चारुवीरमनाश्चारुषु वीरेषु मनो यस्य तादृग् दासधीराराघहितः दासानां भृत्यानां धीरं यथा स्यात्तथा आराध आराधनं सेवाकर्म हितो यस्य तादृग् अजनि संजातः । स विष्णुर्निजसाधवे निजाः साधवो जाता यस्यास्तस्यै, गवे भारत्यै सन्नयेन समीचीननीत्या गेयः स्तुत्यो भूतः ॥
स्वपत्यं विधिनिग्राहं स्वपत्यन्तेऽकरोद्विषाम् ।
आजिजीवाधि कृत्वा तमाजिजीवारवाहतम् ॥ १४० ॥
स्वपेति ॥ स नारायणः स्वपत्यन्ते स्वस्वामिसंनिधौ आत्मजनकसमक्षमेव द्विषां शत्रूणां विधिनिग्राहं विधानबन्धकं स्वपत्यं शोभनापत्यमाज्ञासंपादकं पुत्रमकरोदुत्पादयामास । तदपत्यमाजिजीवारवाहतमाजौ रणे जीवाया रवे अहतमखिन्नं किंतु सोत्सवं तं विष्णुमधि स्वामिनं कृत्वा आजिजीव प्राणान्धारयति स्म तद्वियोगे प्राणोत्क्रमणसूचिका खिन्नता तस्याजायतेति भावः ॥
अमा रणं महामात्रैर्महाबलैरमारणम् ।
अध्यायन्कविभिः काव्यमध्यायं कर्म चाकरोत् ॥ १४१ ॥
·
अमेति ॥ स नारायणो महामात्रै: प्रधानैर्मन्त्रिभिरमा सहाध्यायन् परामृशन् रणं सङ्ग्रामाख्यं महामात्रैर्महावयस्कैर्महाब्रह्मैर्महाद्विजैः । 'कुमहद्भथाम् -' इति ब्रह्मणष्टच् । सह परामृशन् अमारणं हिंसाभावरूपं मायै लक्ष्म्यर्थे रणाभावरूपं वा महामात्रैर्बहुद्रव्यसाध्यैः कविभिः सह परामृशन् काव्यमध्यायं काव्यस्य मध्यमयते तादृशम् काव्यनिर्माणरूपं कर्म अकरोत् । विमृश्यैव सकलं कर्म कृतवान् नत्वविमृश्य । तथा चोक्तम् — 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥' इति ॥
अर्थापेक्षा द्राक्षीत्काले करणमात्रिकान् ।
स पौरानङ्गहारांश्च नमत्क्रमकटीकरान् ॥ १४२ ॥