________________
१८ सर्गः]
द्विसंधानम् । स्तुतवन्तः । तथा चमू: सेना पुरम् अवाष्ट व्याप्तवती । तथा तृणानि आज्ञया आदेशेन भञ्जना आमर्दनक्रिया न आरुर्गतवन्तः ॥
प्रविश्य पुरमाराध्य चक्रमारुह्य विष्टरम् । .
परं मित्राणि देशाय नामुञ्चत्तदनुस्मृतिम् ॥ १३३ ॥ प्रविश्येति ॥ स विष्णुः पुरं प्रविश्य, चक्रम् आराध्य प्रपूज्य, विष्टरमासनमारुह्य, परं केवलं देशाय देशं गन्तुं मित्राणि अमुञ्चत् प्रेषयामास । तदनुस्मृति मित्रानुस्मरणं न अमुश्चत् त्यक्तवान् ॥
एकभुक्तिमलुब्धि च कुलोपकरणं हितम् ।
सामाधिकमसाधुं च राज्यभारं बभार सः ॥ १३४ ॥ एकेति ॥ स नारायण एकभुक्तिमेकानुभवगोचरमेकस्य भुक्ती रक्षा यस्यत्येकच्छत्रम् । अलुब्धिम् अलोभं विमोहहानम् । कुलोपकरणं पृथ्वीलोपकरं वंशोपकारकम् अपि हितं सुखदम् । साना सान्त्वेन अधिकं सया लक्ष्म्या मया ज्ञानेन पञ्चङ्गमन्त्रेण च अधिकम् । अपि । असाधुमचेतोरञ्जकमस्य विष्णोः साधुं मनोहरं राज्यभारं बभार पुष्टिं नीतवान् ॥
नानेष्टसहितादोहि स्वयं गौर्वसु भूपतिः । नानेष्ट स हिताऽदो हि स्थानं तीर्थान्तरात्परम् ॥ १३५ ॥
(विषमपादयमकम्) नानेष्टेति ॥ नानेष्टसहिता विविधाभिलषितयुक्ता हिता हितदायिनी गौभूमिः स्वयमेव वसु द्रव्यम् अदोहि दुग्धा । सोऽसौ भूपतिर्विष्णुरदो द्रव्यं तीर्थान्तरात् धर्मसमवायस्थानान्तरात् परमन्यत् स्थानं न अनेष्ट प्रापितवान् ॥
खपुरग्रामतायत्तं वस्खदिक्षञ्जनं जनम् । खपुरमा मता यत्तं भूपास्तस्याधिकारिणः ॥ १३६ ॥
(विषमपादयमकम्) स्वपुरेति ॥ अग्राः प्रधानास्तस्य विष्णोर्मता इष्टा अधिकारिणो नियोगिनो भूपा यत् यस्मात्कारणात् तं जनं स्वपुः सुष्टु पान्ति स्म । (अतः) स्वपुरग्रामतायत्तमात्मनगरग्रामसमूहाधीनं वसु द्रव्यम् अदिक्षन् दिष्टवन्तः ॥
परस्परमपश्यन्तः सामन्ता ददृशुः प्रभुम् ।
नमन्तस्तं नवोत्थानं भानुं दूरस्थिता इव ॥ १३७ ॥ परस्पेति ॥ दूरस्थिताः सामन्ताः परस्परम् अपश्यन्तः सन्तो नवोत्थानं नवप्राप्त नवो. दयं भानुमिव तं प्रभुं नमन्तः सन्तो ददृशुः ॥