________________
२२२
समयैति ॥ के अरयः समयाचक्रिरे कालयापनां कृतवन्तः । न केsपि । यद्यस्मा - त्कारणात् अम्बुधीन् समया समीपे अरिमूलं शत्रुमूलं खेयं खननीयम् । युक्तमेतत् । यत इयं चक्रिरेखा चक्रवर्तिमर्यादा सामवायिकैः सैनिकैरलङ्घया ॥ समयासीदसौजन्यं समयासीदसौजन्यम् ।
काव्यमाला |
समयासीदसौ जन्यं समयासीदसौ जन्यम् ॥ १२८ ॥
(पादसमोऽश्वप्लुतिर्मुरजबन्धः)
समेति ॥ समयासीत् संगतोऽयं शुभावहविधिं तादृशासिना इन्धे दीप्तो भवतिः तादृकू, असौ विष्णुर्यदि जन्यं रणं समयासीत् सम्यग्गतवान् तदा असौ जन्यममैत्रीं समयासीत् प्रयत्नविषयीकृतवान् । तथा जन्यं जनादनपेतम् असौ खड्ने असौ प्राणे च जन्यमपवादं समया समीपम् आसीत् ॥
व्यधादरीणां द्वीपेषु जयस्तम्भस्थितिं व्यधात् ।
व्यधाद्वेलावने धैर्याद्दण्डोऽस्य मधु भव्यधात् ॥ १२९ ॥ (आद्यन्तयमकार्धः)
व्यधादिति ॥ अस्य विष्णोर्दण्डः सैन्यम् अरीणां शत्रूणां व्यधात्ताडनातो द्वीपेषु जयस्तम्भस्थितिं व्यधात् कॢप्तवान् । तथा भव्यधात् कल्याणधारकाद् धैर्याद् वेलावने मधु मधुरसं व्यधादास्वादितवान् ॥
इत्यादाय दिनैः कैश्चिद्दिशो दण्डधनं नृपः ।
सदयोध्यामतो रागाद्ययौ द्वारवतीं पुरीम् ॥ १३० ॥
इत्येति ॥ नृपो लक्ष्मण इत्येवंप्रकारेण कैश्चिद्दिनैर्दिशः सत्समीचीनं दण्डधनमादाय गृहीत्वा अतः अतति तादृशो विजृम्भमाणाद् रागात् प्रीतेर्द्वारवतीं सुद्वाराम् अयोध्यां पुरीं ययौ ॥ भारतीये – नृपः कृष्णोऽयोध्यां योद्धुमशक्यां द्वारवतीं द्वारकां पुरीम् ॥ वियोगे लघुमुत्तङ्गमानीताशार्थमात्मजम् ।
सा तं मातेव संवोढुं मुदामान्त्यपि नाशकत् ॥ १३१ ॥
वियोग इति ॥ सा नगरी मुदा संतोषेण हर्षेण अमान्ती अवकाशमलभमाना अपि तं नारायणम् । माता जननी वियोगे लघुम् (संयोगे ) उत्तुङ्गम्, आनीताशार्थव्याहृताभिलषितार्थम् आनीतदिग्द्रव्यम् आत्मजं पुत्रमिव संवोढुं न अशकत् न शक्ता ॥ अवाष्टभञ्जनाश्चारुशेषाभिस्तं चमूः पुरम् ।
अवाष्ट भञ्जनाश्चारुराज्ञया न तृणान्यपि ॥ १३२ ॥
अवाष्टेति ॥ जनाः प्रजास्तं विष्णुम्, चारुशेषाभिर्मनोहराशीर्वादैरवाष्टभन्नवष्टब्धवन्तः