SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १८ सर्गः] द्विसंधानम् । . २२१ लक्ष्म्या दारिद्येण अपेतः परित्यक्तः यतो यत्नपर उद्यमी विष्णुः क्षमातले धरातले इझ्या दीप्त्या अत्रपु अलजं निःशकं यथा स्यात्तथा आयन् आगच्छन् सन् कं पुरुषं तया लक्ष्म्या आशु शीघ्रम् न आरेभे । अपि तु सर्वमुत्सुकीकृतवान् ॥ श्रीधीनीतिस्थितिप्रीतेरुद्धेतिरुचितोदिति । एषोऽजैषीविषो रोषै रुद्धेति रुचितोदिति ॥ १२३ ॥ (च्युतायोगवाहकण्ठ्यः समपादयमकः) श्रीति ॥ श्रीधीनीतिस्थितिप्रीतेः श्रिया धिया नीतेरनिन्द्यस्थितेश्च प्रीतेः चितो योग्य उद्धेतिरुत्खातशस्त्रः एष विष्णुः इत्युक्तप्रकारापेक्षया रुचितोदिति ईहितोदयं यथा स्यात्तथा रोषै रुद्धा संवृत्य अदिति अखण्डं यथा स्यात्तथा द्विषः शत्रून् अजैषीजितवान् ॥ श्रीतः सुरकुलं हीनमत्रासीदक्षमोहितम् । - क्षात्रं तु वृत्ततः क्षिप्तमत्रासीदक्षमोहितम् ॥ १२४ ॥ (समपादयमकम्) श्रीत इति ॥ सुरकुलं देववृन्दं श्रीतः श्रियाः सकाशाद्धीनं सदक्षमोहितम् अक्षेषु स्पर्शन-रसन घ्राण-चक्षु-श्रोत्रेन्द्रियेषु मोहितं तदीयव्यापारनिर्विवेकम् आसीत् संजातम् । विष्णोविभूतिमालोक्य लज्जितमासीत् । तथा अत्र लोके तु क्षात्रं क्षत्रियसमूहो वृत्तत आचरणात् क्षिप्तं सदक्षमोहितं न विद्यते क्षमायाः पृथ्व्या उहितं वितर्कणं यस्य तादृक् सदत्रासीत् त्रस्तम् ॥ सर्वकर्माणमूर्ध्वज्ञं दूतमुद्युक्तविक्रमम् । ___प्रहित्याश्वमपि म्लेच्छस्त्रीराज्यं तमशुश्रुवत् ॥ १२५ ॥ सर्वेति ॥ सर्वकर्मीणं सर्वकार्यसमर्थम् उर्वज्ञमूर्ध्वजानुकम् उद्युक्तविक्रमं समर्थविशिष्टपादम् आश्वमश्वसंबन्धिबलं (क)सर्वकर्मीणम्, उर्वज्ञम् उत्तरफलज्ञातारम्, उद्युक्तविक्रमं प्रयुक्तपराक्रमं दूतं प्रहित्य प्रेष्य तं विष्णुम् (प्रयोज्यकर्म) म्लेच्छस्त्रीराज्यं म्लेच्छानां क्षत्रियाणामेव स्त्रीणां स्त्रीभूतानां राज्यम् अपि अशुश्रुवत् श्रावितवत् ॥ . प्रजिघ्युः पार्वतीयाश्च चामरं दन्तमौषधिम् । चित्तेन कार्मणेनापि द्विषन्तो न तमद्विषुः ॥ १२६ ॥ प्रजिघ्युरिति ॥ पार्वतीयाः पर्वतोद्भवाश्चामरं दन्तम् औषधिम् प्रजिघ्युः प्रेषितवन्तः । तथा कार्मणेन कर्मप्रयुक्तेन चित्तेन द्विषन्तोऽपि तं विष्णुं न अद्विषुः ॥ समयाचक्रिरे खेयं केऽरिमूलं यदम्बुधीन् । समया चक्रिरेखेयमलङ्घया सामवायिकैः ॥ १२७ ॥ (समपादयमकम)
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy