________________
२२०
काव्यमाला ।
लूनं खलीकृतं नैव कष्टं न द्विगुणीकृतम् ।
तथापि यानेशालेयक्षेत्राणि ददिरे फलम् ॥ ११८ ॥ लूनमिति ॥ यद्यपि क्षेत्रं लूनं छिन्नम्, नैव खलीकृतमखलं खलं धान्यमर्दनभूमि: कृतम् । तथा कृष्टं कर्षणीकृतम् , नैव द्विगुणाकृतं द्विहितम् । तथापि यानेशालेयक्षेत्राणि यानेशानां यानेश्वराणाम् आलेयानामालिमतां शत्रूणां क्षेत्राणि फलं ददिरे ॥ यद्वा तथापि शालेयक्षेत्राणि शालिभवनक्षेत्राणि याने प्रयाणे फलं ददिरे ॥
अमरः खचरश्चक्रमत्रसत्समनद्ध तम् । कश्च पश्यञ्जगच्चक्रमत्र सत्समनद्धतम् ॥ ११९ ।।
(समपादयमकम्) अमर इति ॥ कश्च कोऽपि अमरो देवः खचरो विद्याधरः अत्र सङ्कामे हतं तं प्रतिविष्णुम् , चक्रम् (सुदर्शनाभिधम्) अत्रसत् उद्वेगमगच्छत् सत् समीचीनं सर्वक्लेशरहितम्, समनत् समुच्छसत् समुल्लसत् जगच्चक्रम् , पश्यन् सन् समनद्ध संनद्धवान् । अपि तु न कोऽपि ॥
येऽमी मायामयायामाः शाङ्गमारोप्य तैरयम् ।
शरैः शशार शूरोऽरीन्प्राप्य शैलमहागुहाः ॥ १२० ॥ येऽमी इति ॥ अयं शूरो विष्णुः शैलमहागुहाः पर्वतबृहत्कन्दरान् प्राप्य शार्ङ्ग धनुः आरोप्य येऽमी शरा मायामयायामाः मायानिर्माणदैर्ध्याः सन्ति, तैः शरैः अरीन् शशार हतवान् ॥
कन्याहेमपुरो लेभे मायी यायात्र कातरे ।
शुद्ध्यानपेतो यामायानयं यातोऽयमक्षत ॥ १२१ ॥ कन्येति ॥ मायी मायावी अत्र रणे याया अतिशयेन गमनशील: कातरे भीरौ शुद्ध्यानपेतोऽपरित्यक्तोऽयं शुभावहविधिं यातः प्राप्तः विष्णुर्या शुद्धिमायान् आगच्छन् सन् यं कातरम् अक्षत हतवान् स कन्याहेमपुरस्तनयासुवर्णपुराणि लेभे प्राप्तवान् ॥
कमाशु न तयारेभे न्यायीध्यायन्क्षमातले । हेयानयामयाकारोमयापेतो यतोत्रपु ॥ १२२ ॥
- (अर्धभ्रमगर्भश्लोकः) कमिति ॥ न्यायी नीतिमान् हेयानयामयाकारो हेयस्य अनयस्यैवामयस्येवाकारो यस्य तादृक हेयानां शत्रूणामानानां याममुपरमं विध्वंसं याति प्राप्नोतीवाकारो यस्य तादृग् हेयैः परित्याज्यैरानैः प्राणै यायते प्राप्यते तादृश्या अया मर्यादायां त्रियां कीर्तावाकारः कीर्त्यते बुधैः' इत्युक्तेः कीर्त्या निर्वत आकारो यस्य ताग वा, अमया न मया