SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १८ सर्गः] द्विसंधानम् । --- २१९ वानीमविपिनेऽयेये जीनारावे रजोमये । भरादपेतै राजोने विवेपेऽरिशतैरपि ॥ ११३ ॥ (अर्धभ्रमः) वाजीति ॥ अयेये अगम्ये जीनारावे क्षीणशब्दे रजोमये धूलिप्रचुरे राजोने शत्रुहीने वाजीभविपिने तुरगगजरणे भराद् रणतत्परतायाः अपेतैरपगतैररिशतैरपि विवेपे कम्पितम् ॥ न नाम प्रतिसामन्तं त्रेसुः के संघवृत्तयः। ननाम प्रतिसामं तं प्रकृत्या प्रातिकूलिकः ॥ ११४ ॥ (विषमपादयमकम्) नेति ॥ के संघवृत्तयः सामवायिकाः क्षत्रियाः, प्रतिसामन्तं सामन्तं सामन्तं प्रति, नाम अहो न त्रेसुत्रस्ताः । अपितु सर्वेऽपि । अतएव प्रातिकूलिकः प्रतिकूलं वर्तमानस्तं नारायणं प्रकृत्या स्वभावतः प्रतिसामं यथोपशमं यथा स्यात्तथा ननाम नमस्कृतवान् ॥ कमन्यं यः समुन्न तमकरोत्करदा मतः । गम्भीरां वार्धिविततिमकरोत्करदामतः ॥ ११५ ॥ (समपादयमकम्) कमिति ॥ यः समुत् सहर्षः करदा सिद्धायदात्रा मत इष्टः सन् गम्भीरां वाधिवितति समुद्रविस्तारकरदां सिद्धायदात्रीम् अकरोत् । अतः कम् अन्यं तं करदं न अकरोत् । अपि तु सर्वम् ॥ ... त्रस्तेऽराववरास्तेऽत्र केशवेन नवेऽशके । तेपे चारु रुचापेते नाधुते न नतेऽधुना ॥ ११६ ॥ __ (गतप्रत्यागतचरणः) त्रस्त इति ॥ अधुना संप्रति केशवेन लक्ष्मणेन विष्णुना त्रस्ते भीतेऽवरास्ते आद्विष्णोर्वरेण प्रधानेन ज्येष्ठेन रामेणास्ते क्षिप्ते नवे नूतनेऽशकेऽशक्ते रुचा कान्त्यापेते त्यक्त आधुते समन्ततः कम्पिते नते नम्रऽत्र अरौ चारु यथा स्यात्तथा न न तेपे। तेप एव ॥ समजन्यायतोऽन्यान्गोसमजन्यायतोऽवयन् । समजन्यत हीनारे समजन्यतयायतिः ॥ ११७ ॥ समजेति ॥ विष्णुर्गोसमजन्यायतो गोसमूहन्यायेनायत आगच्छतोऽन्याञ्शत्रूनवयज् जानन् समजनि संजातः । समजन्यतया समानरणतया अरेः शत्रोरायतिः फलमुत्तरं हीना क्षीणा समजन्यत कृता॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy