________________
२१८
काव्यमाला |
कौरव कुत्सितरवसंबन्धिनीम् 'तस्मिन्नाथे मृते कथं भवद्भिर्जीवनीयम्' इति लोकापवादरूपां गतिम् उच्छेत्तुम् योधनपाटवं युद्धपटुत्वम् अदुर्दत्तवन्तः । स सख्येन मित्रत्वेन स्वां युद्धजितां भुवं तेभ्यो विभीषणादिभ्यो ददौ दत्तवान् ॥ भारतीये – ये पाण्डवा: कौरवीं कुरूणामिमां गतिम् अदुर्योधनपाटवं न विद्यते दुर्योधनस्य राज्ञः पाटवं पटुत्वं जीवनं यत्र तादृग् यथा स्यात्तथा उच्छेत्तुं विक्रान्ताः । तेभ्यः पाण्डवेभ्यः स विष्णुः स्वां स्वकीयां भुवम् ददौ ॥
सरक्षोवरजो राज्यं धर्मपुत्रोऽथ फल्गुनः । भीमोहतापरुद्धारि लब्ध्वासीद्वैरतः प्रभोः ॥
१०९ ॥
सरेति ॥ अथ स्वभूमिदानानन्तरं स रक्षोवरजो रावणानुजो विभीषणः फल्गुनः निःसाराद् वैरतो वैराद् भीमोहतापरुद्धारि भिया मोहेन तापेन च रुद्धा अरयो यस्मातादृशं राज्यं लब्ध्वा प्रभो रामस्य धर्मपुत्रः प्रतिपन्नपुत्रः आसीत् ॥ भारतीये - धर्म - पुत्रो युधिष्ठिरः, भीमस्तदनुजः, फल्गुनोऽर्जुनः, अवरजः अवगतं रजो यस्येत्येनोमलरहितं हतापरुद्धारि हता अपरुद्धाश्च अरयो यत्र तादृशं राज्यं लब्ध्वा प्रभोः कृष्णस्य रतः प्रीतः सरक्षः रक्षासहितः आसीत् ॥
ततो विधातुमन्येषां निश्चक्रामवसुं धराम् ।
आत्मीयां रक्षितुं चत्री निश्चक्राम वसुंधराम् ॥ ११० ॥ (समपादयमकम् )
तत इति ॥ ततो विभीषणाय पाण्डवेभ्यश्च राज्यसमर्पणानन्तरं चक्री नारायणोऽन्येषां शत्रूणां धरां पृथ्वीं निश्चक्रां निर्घाटकाम् अवसुं निर्द्रव्यां विधातुं कर्तुम् आत्मीयां स्वकीयां वसुंधरां पृथ्वीं रक्षितुं निश्चक्राम निर्गतवान् ॥
हरितो हरितो बिभ्युराभ्यो राभ्यो विनारयः ।
तेऽभ्यस्तेभ्यः स्वदेशेभ्यः केवलं केऽवलन्न वा ॥ १११ ॥
हरित इति ॥ हरितो दिशो हरितो नारायणाद्, बिभ्युः । ते के । अभ्यो निर्भया aste आभ्यो दिग्भ्यः तेभ्यः प्रख्यातेभ्यः स्वदेशेभ्यो राभ्यो द्रव्येभ्यो विना केवलं परं न अवलन् ॥
आशिश्रियन्नदीनाथो गङ्गा सिन्धुश्च केशवम् |
आशि श्रियं न दीनाथो दिग्भीता तेन बिभ्रता ॥ ११२ ॥
(विषमपादयमकम् )
आशिश्रीति ॥ नदीनाथो माधवो देवो वरतन्तुदेवः प्रह्लादनदेवश्च गङ्गा सिन्धुश्च केशवं नारायणम् आशिश्रियत् सेवते स्म । अथो अनन्तरं श्रियं बिभ्रता तेन नारायणेन दीना भीता दिकू (किं) न आशि । अपि तु व्याप्तैव ॥