________________
१८ सर्गः ]
द्विसंधानम् ।
२१७
पुरोरिति ॥ पुरोर्महतस्तत् तस्मात् रिपोः शत्रोरुत्तापातपः संतापातपोसेप दुजज्वाल । तु पुनः अपारोऽवशोऽपराधीनोऽवेशोऽवगत ईशो यस्य निःस्वामिक उत्तापातपो मानिनीमनोऽपि नृमानमिव विवेश प्रविष्टवान् ॥
हरिः क्रान्तमतं भूतगरिमान्तगतं बत ।
वरित्सुं तत्र तष्ट्वा तमरिणान्तरतप्यत ॥ १०४ ॥
(अश्वप्लुतबन्धादिः)
हरिरिति ॥ हरिः क्रान्तमतम् अनुक्तकारिणं भूतगरिमान्तगतं भूतगरिमावसानगतं भूतव्यापारव्याप्तिविपर्ययप्राप्तं वरित्सुं हन्तुमिच्छ्रं तं प्रतिविष्णुं तत्र युद्धे अरिणा चक्रेण राष्ट्रा हत्वा अन्तरन्तःकरणे बत खेदे अतप्यत स्वयं तप्यते स्म ॥ सत्यतो विभया व्यूहे समुत्पत्या महोरसा ।
सत्यतो विभया व्यूहे समुत्पत्या महोरसा ॥ १०९ ॥ (अर्धसमः समुद्रकगोमूत्रिकामुरजादिबन्धः)
सत्येति ॥ महोरसा विस्तीर्णवक्षसा पत्या विष्णुना सती समीचीना विभया विगतविधुरा समुद्र सहर्षा महोरसा तेजोरसा आ लक्ष्मीर्व्यूहे रणे सत्यतः सत्यादेनं प्रतिविष्णुं जेष्यामीति निश्चयाद् विभया विशिष्टप्रभया प्रतापेन अतः प्रतिविष्णुवधात् समुत्पत्य आगत्य व्यूहे परिणीता ॥
बलिमानचयावेद्य बलिमानर्च संयुगे ।
निर्ययौ भूतलोकं तं निर्ययौ भूतलोचितम् ॥ १०६॥
बलीति ॥ बलिमान् बलिनोऽस्य सन्तीति विष्णुनिर्ययौ निरश्वे संयुगे रणे तं प्रतिविष्णुं भूतलोचितमवनीतलयोग्यं बलिम् अर्चया पूजया आवेद्य संकल्प्य भूतलोकं भूतसमूहम् आनर्च पूजितवान् तथा निर्ययौ रणान्निर्गतः ॥
याहतेशाहते सीता साह तेजोधिके रिपौ ।
व्याहते श्वसितै रागं प्राह तेन स्म संयुता ॥ १०७ ॥
येति ॥ या ईशात्स्वामिनो रामादृते विना हता खिन्ना सा सीता जानकी तेजोधिके प्रतापाधिके रिपौ शत्रौ व्याहते सति तेन रामेण संयुता सती श्वसितै रागं प्रीतिम् अह कष्टेन प्राह स्म प्रकटितवती । भारतीये - ईशात्प्रतिविष्णोः ऋते । अहता अखिन्ना प्रसन्ना । तेन विष्णुना । सीता भूमिः ॥
कौरवों गतिमुच्छेत्तुमदुर्योधनपाटवम् ।
ये ते सख्येन विक्रान्ताः स स्वां तेभ्यो ददौ भुवम् ॥ १०८ ॥ कौरेति ॥ ये ते विभीषणप्रभृतयो रावणबान्धवा विक्रान्ताः सुयोजिताः सन्तः
२८