SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २१६ काव्यमाला | तेति ॥ स नारायणस्तेन वैरिणा आत्मशिरसा निजमस्तकेन कृत्वा अर्जिता सा श्रीर्बहिःशिरः शिरसो बहिः कथं स्यादितीव हेतोरन्याङ्गमुत्सृज्य अतो रिपुत उत्तमाङ्ग शिरोऽग्रहीत् ॥ ग्रीवा हते क्षरत्तन्त्र वैरराजे समन्ततः । धुनी सधातुस्यन्देव वै रराजे समं ततः ॥ ९८ ॥ (समपादयमकम् ) ग्रीवेति ॥ ततः शिरश्छेदानन्तरं वैरराजे प्रतिविष्णौ हते सति क्षरत्तन्त्री सवन्नाडिका ग्रीवा सधातुस्यन्दा गैरिकप्रस्रवणा धुनी नदी इव समं युगपत् समन्ततः सामस्त्येन वै निश्चये रराजे शोभिता ॥ इत्यानि द्विषन्देवैर्दिव्यघानिषतानकाः । जित्वाद्यानि स्थितोऽनर्तीदमोघानि स नारदः ॥ ९९ ॥ इत्यघेति ॥ इत्येवंप्रकारेण [ विष्णुना ] द्विषन् प्रतिविष्णुरघानि हतः । तथा देवैर्दिव आनकाः पटहा अघानिषत आहताः । तथा अमोघानि निष्फलानि अघानि पापानि जित्वा स्थितः स नारदो ब्रह्मपुत्रः अनतत् । नृत्यं कृतवान् ॥ सत्रा संभ्रमसंपातैः सत्रासं भ्रमरैश्चिता । ता माल्यमालिकाः पेतुस्तामाल्य इव नाकतः ॥ १०० ॥ सत्रेति ॥ चिता: पुष्टास्ता माल्यमालिकाः पुष्पमालाः । तामाल्यः तमालकुसुमनिर्मिता इव | सत्रासं समयं यथा स्यात्तथा संभ्रमसंपातैः संभ्रमेण संपातो येषां तैभ्रमरैः सत्रा सार्धं नाकतः स्वर्गतः पेतुः ॥ अक्षेतामुभौ सेन्द्रैर्विशेषेण जगद्विषत् । पौरुषं पुरुषायत्तं मरणं हि विधेर्वशम् ॥ १०१ ॥ अदृक्षेतामिति ॥ सेन्द्रैरिन्द्रसहितैर्विशेषेणोभौ विष्णु प्रतिविष्णू अक्षेतां दृष्टौ । जगत् द्विषत् पौरुषं पुरुषायत्तं वर्तते । मरणं विधेर्वशम् अस्ति । हि स्फुटम् ॥ शुद्धां शुद्धान्तवसतिं संगतः कर्मसङ्गतः । मुख्योद्यावो ददे मुख्यो बाष्पेण व्यञ्जलं जलम् ॥ १०२ ॥ शुद्धामिति ॥ कर्मसङ्गतः क्रियासंबन्धात्, शुद्धां पवित्रां शुद्धान्तवसतिम् अन्तःपुरमन्दिरं संगतः प्राप्तो मुख्यः प्रधानो मुख्योद्यावो मुख्यानां प्रधानाङ्गनानामुद्यावः समूहो बाष्पेणाश्रुणा त्र्यञ्जलम् अञ्जलित्रयमितम् । 'द्वित्रिभ्यामञ्जलेः' इति टच् । जलं ददे दत्तवान् ॥ पुरो रिपोरपारोऽपि तत्तूत्तापातपोऽतपत् । विवेशेवावशोऽवेशो नृमानं मानिनीमनः ॥ १०३ ॥ ( यक्षरपादः)
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy