________________
१८ सर्गः] . द्विसंधानम् । पश्चात्तापं कुर्वन्ते । रिपुः साम्राज्यमूले हस्त्यश्वरथपदातिलक्षणेऽतीते लोचनग्रोचरातिक्रान्तेऽपि सति, तादवस्थ्यं तदवस्थतां ययौ ॥
कृपया नापि मोहेन हस्तप्राप्तं हि दुस्त्यजम् ।
किंतु शत्रूत्तरप्रौढिं शुश्रूषुः स व्यलम्बत ॥ ८२ ॥ कृपयेति ॥ हस्तप्राप्त करगतं वस्तु, कृपयानुकम्पया, मोहेनापि न दुस्त्यजम् । किंतु स शत्रूत्तरप्रौढिं रिपोरुत्तरकालीनसामर्थ्य शुश्रुषुराकर्णयितुमिच्छु: सन् व्यलमात कालयापनां चकार ॥
अत्यन्तकोऽपकारेण निरास्थन्न तदानवम् । अत्यन्तकोपकारेण निरास्थं नतदानवम् ॥ ८.३ ॥
. (अर्धसमः मुरजसमुद्गकबम्धः) अत्यन्तेति ॥ अत्यन्तको विष्णुरत्यन्तकोपकारेणातिशयितक्रोधकारिणा अपकारेण निरास्थं चञ्चलं नतदानवं नता दानवा येन तादृशं तद् आनवम् अनो रथस्य इदुमानवं चक्रं न निरास्थत् निक्षिप्तवान् ॥
व्यापिपयापिपद्मोऽसौ रूक्षोरू क्षोभपीवरौ । तौ भुजौ भूभुजौ पूर्व वाचोवाचोद्धरो विभुः ॥ ८४ ॥
. (ओष्ठयः) व्यापीति ॥ व्यापिपद्मः व्यापी प्रतिषेधकः पद्मो रामो यस्य व्यापिनी कामव्यापारचतुरा पद्मा लक्ष्मीर्यस्य उद्धर उत्कट: असौ, विभुर्लक्ष्मणो नारायणश्च । पूर्व वाचा वाण्योवाच, पश्चात् क्षोभपीवरौ क्षोभपुष्टौ रूक्षोरू कर्कशोरू भूभुजौ भुवं भुआते इत्येवंशीलौ, तो भुजौ व्यापिपत् व्यापारितवान् ॥ .
भोगः स एव सा संपन्नम हानिश्च यस्यते । सीतार्पणेऽपवादो मे न महानिश्चयस्य ते ॥ ८५ ॥
(समपादयमकम् ), भोग इति ॥ हे प्रतिविष्णो, यतो महानिश्चयस्य गृहीतप्रौढप्रतिज्ञस्य ते तव स एव भोग: 'सैन्यनाट्यनिधिरत्नभोजनान्यासनं शयनभाजनोऽपरम् । वाहनेन सममित्यभीप्सितं भोगमाप स दशाङ्गमीश्वरः ॥' इत्युक्तभेददशाङ्गलक्षणः, सैव संपलक्ष्मीः, अस्ति, अतो नम नम्रो भव, यस्यते यत्नं कुर्वते मे मां सीतार्पणे जानकीदाने भूमिदानेऽपवादो जनदूषणं हानिश्च न स्यात् ॥
प्रत्याहतं सुराजानन्नामकीर्तिरिति स्म सः । प्रत्याह तं सुरा जानकथाक्षेपेण शात्रवः ॥ ८६ ॥
(विषमपादयमकम्)