________________
२१२
काव्यमाला | . आज्ञासमापनीयेन विष्णु वास्त्रमैक्ष्यत ।
तेनैव तद्यशः केन निःशेष समभुज्यत ॥ ७६ ॥ आज्ञेति ॥ आज्ञासमापनीयेन प्रतिज्ञानिर्वाहकेण, विष्णुनैव अस्त्रं चक्रमैक्ष्यतावलोकितम् । तथा तेनैव विष्णुनैव तद् यश ऐक्ष्यत । निःशेष सकलं केन समभुज्यत भुक्तम् । न केनापि ॥
न तद्धजतट गच्छन्न रराज स्यदारुणम् । अर्कोऽञ्जनाद्रिपर्वेव नरराजस्य दारुणम् ॥ ७७ ॥
(समपादयमकम्) नेति ॥ स्यदारुणं वेगलोहितं तच्चक्रं नरराजस्य दारुणं भुजतटं गच्छत् सत् । अञ्जनाद्रिपर्व अअनगिरितटं गच्छन्नर्कः सूर्य इव । न न रराज रराजैव ॥
भियेदंमिति नैकोऽपि जज्ञे तत्केशवः परम् ।
यस्यांसमगमञ्चकं वोढा भारं हि बोधति ॥ ७८ ॥ . भियेदमिति ॥ एकोऽपि भिया भयेन इदम् इति न जज्ञे ज्ञातवान् । परं केवल यस्य अंसं प्रति चक्रम् अगमत् स केशवस्तच्चक्रं जज्ञे । युक्तमेतत् । हि यतः वोढा वाहको, भारं बोधति जानाति ॥
उत्तमोऽपरतो दुःखमुत्तमोऽभ्युदयोऽन्यतः । आसीदतिक्रमं तस्मिन्नासीदति रवाविव ॥ ७९ ॥
(अर्धपादादियमकः) उत्तेति ॥ अपरतः पृष्ठतः, उत्तम उद्तान्धकारं दुःखम् , अन्यतोऽप्रत उत्तम उत्कृष्टोऽभ्युदयः, तस्मिन् चक्रे । रवौ इव । अतिक्रमम् आसीदति आगच्छति सति, आसीत् ॥
चक्रं दुःसहमालोक्य चक्रन्दुः सहसारयः ।
मृतोत्पन्नेव साश्वा साश्वासा सा वैष्णवी चमूः ॥ ८० ॥ चक्रमिति ॥ अरयो दुःसहं चक्रम् आलोक्य सहसा शीघ्रं चक्रन्दुराक्रन्दितवन्तः । तथा-साश्वा सतुरगा साश्वासा आश्वाससहिता सा वैष्णवी चमूम्रतोत्पन्ना पूर्व मृता पश्चादुत्पन्नेवासीत् ॥
हस्तच्युते गते क्वापि कीदृशोऽप्यनुशेरते ।
साम्राज्यमूलेऽतीतेऽपि तादवस्थ्यं ययौ रिपुः ॥ ८१ ॥ हस्तेति ॥ कीदृशोऽपि पुरुषा वस्तुनि हस्तच्युते करपतिते क्वापि गते सति अनुशेरते