________________
१८ सर्गः] द्विसंधानम् ।
२११ दूरेति ॥ दूरक्षेशविभीमो दूरक्षेण दुःखेन रक्षितुमशक्येन ईशेन रावणेन विभीमो भयानको विभीषणो राक्षसः इत्येवंप्रकारेण, वेपथु कम्पम्, ईयुषि गतवति, अस्मिन् युद्ध रणे त्रस्तं परमुत्कृष्टं सैन्यं विजगाहे विलोडितवान् ॥ भारतीये-विभीषणो भयानको भीमो द्वितीयपाण्डवो दूरक्षे दुष्टरक्षे युद्धे शवि शववत् सैन्यम् ॥
अजित्वान्यं श्रिया विष्णोररिरंसोरसी सरत् । संमुखं चक्रमुद्दयोतैररिरंसोरसीसरत् ॥ ७२ ॥
(समपादयमकम्) अजित्वेति ॥ अरिः प्रतिविष्णुरन्यम् अजित्वा श्रिया लक्ष्म्या सह अरिरंसोः क्रीडितुमनिच्छोर्विष्णोरंसोरसी स्कन्धवक्षसी उद्दयोतैः प्रकाशैः संमुखं यथा भवति तथा सरत् गच्छत्, चक्रम् , असीसरत् प्रेरितवान् ॥
स प्रभाविमं भूमेः कामुको नमयन्परान् । वामोऽथ चक्रं वक्रोऽरिः [प्रमुमोच न विक्रम् ॥ ७३ ॥
__ (गूढचतुर्थपादः) स इति ॥ अथ भूमेः कामुकः कामी वामः प्रतिकूल: वक्रः कुटिलः सोऽरिः परान् नमयन् सन् प्रभाविक्रमं प्रभावी क्रमो यस्य तत् चक्रं प्रमुमोच त्यक्तवान् । विक्रम पराक्रमं न प्रमुमोच॥ अनुलोमगत्या द्वितीयाक्षरैः, विलोमगत्या चतुर्थाक्षरैः, पश्चमाक्षरैः पुनरनुलोमगत्या चतुर्थपादोद्धारः ॥
सोरुत्रैः सुसंसने सीरिसीरासिरासरत् ।। सा ररास रसा सारा सुराः सत्रंसिरेऽसुराः ॥ ७४ ॥
(ध्यक्षरः) सोरिति ॥ सस्रः सूर्यस्य उौः किरणैः सुसंसले संकुचितम् । तथा च सीरिसी. रासि: सीरी बलभद्रश्चासौ सीरासिः सीरो हलमेव असिर्यस्य स च आसरत् विज़म्भते स्म । तथा सारा प्रधाना सा रसा पृथ्वी ररास ध्वनितवती । तथा सुरा देवा असुरा दानवाः सस्रंसिरे पतिताः ॥
अरथाश्वं हरियुद्धमध्यवासादसिन्धुरम् । वीक्ष्यास्त्रं विदधत्सैन्यमध्यवासादसि धुरम् ॥ ७५ ॥
___(समपादयमकम्) अरेति ॥ हरिरध्यवासात् निश्चयात् युद्धं रणं विदधत् कुर्वन् अरथाश्वं रथवाजिरहितम् असिन्धुरं गजरहितं सैन्यं विदधत् अस्त्रं वीक्ष्य, धुरं प्रधानम् असिं खड्गम् अध्यवासात् गृहीतवान् ॥