SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २१० काव्यमाला। तम तथायुधिष्ठिरन्तारं कील् बलमधिष्ठितम् । चिन्तागृहप्रवेशैकप्रारम्भो राममाविशत् ॥ ६६ ॥ तथेति ॥ चिन्तागृहप्रवेशैकप्रारम्भः चिन्ताया एव गृहस्य संबन्धिनः प्रवेशस्य एकः प्रारम्भः, आयुधिष्ठि अतिशयितायुधवत् बलं सैन्यम् अधिष्ठितम्, रन्तारं क्रीडन्तं रामं राघवम्, आविशत् ॥ भारतीये-तारमुच्चं बलम् अधिष्ठितं युधिष्ठिरं प्रधानपाण्डवं रामं बलभद्रं च ॥ असुग्रीवाभियोगार्तमनाशं नरि पौरुषम् । विदधेऽनाकुलं सैन्यमनाशं न रिपौ रुषम् ॥ ६७॥ ___ (समपादयमकम्) अस्विति ॥ असुग्रीवाभियोगात सुग्रीवस्याभियोगाभावेन ऋतं सुग्रीवोद्यमाभावेनादितम् अनाशं कलत्रपुत्रादौ अलोभितया स्वस्थं सैन्यम् अनाकुलमव्यग्रं सत् रिपौ शत्रौ नरि जने अनाशमनश्वरं पौरुषं विदधे । रुषं न विदधे || भारतीये-असुग्रीवाभियोगात कण्ठगतप्राणार्दितम् नाकुलं नकुलसंबन्धि ॥ योऽपि ना हनुमानाजेर्जुष्टो भेरिरवो गतिः । नोऽरुजे तीर्थनीत्याथोऽसौ सहायकमस्तुत ॥ ६८ ॥ योऽर्जुनोऽसौ स रुष्टोऽपि नाभेजे हायतीरिह । नुरर्थकमनीवोमा नागत्यास्तु तथोतिजे ॥ ६९ ॥ (गोमूत्रिकान्वधः) योऽपीति ॥ अथ उ अहो योऽपि आजेः सङ्ग्रामात् , जुष्टः प्रीतः, भेरिरवो दुन्दुभिध्वनिर्ना पुरुषो हनुमान्, नोऽस्माकं तीर्थनीत्या पञ्चाङ्गमन्त्रेण अरुजेऽभङ्गाय गतिरस्ति । असौ सहायकं मित्रसमूहम् , अस्तुत प्रार्थितवान् ॥ भारतीये गोमूत्रिकाबन्धगर्भश्लोकेन-यः स लोकप्रसिद्धोऽर्जुनो मध्यमपाण्डवो रुष्टोऽपि सनिह रणे असौ खड्ने आयतीरुत्तरफलानि न आभेजे आश्रितवती । तथा उतिजे रक्षाजाते इह रणे नुः पुरु. षस्य अगत्या अनीत्या उमा कीर्तिः । अर्थकमनी द्रव्यमनोहरा इव । न अस्तु ॥ हस्तच्युतास्त्रमाकम्पं मीलिताक्षं बलं जलम् । वाताहतमिवोत्सृज्य न म वेद क्रियान्तरम् ॥ ७० ॥ हस्तेति ॥ हस्तच्युतास्त्रं करगलितशस्त्रं, मीलिताक्षं संकुचितलोचनं, बलं सैन्यं, वाताहतं जलम् इव । आकम्पम् उत्सृज्य परित्यज्य, क्रियान्तरं न स्म वेद जानाति ॥ दूरक्षेशविभीमोऽस्मिन्निति वेपथुमीयुषि । त्रस्तं युद्धे परं सैन्यं विजगाहे विभीषणः ॥ ७१ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy