________________
१८ सर्गः]
द्विसंधानम् ।
२०९
अवीति ॥ इत्थमेवंप्रकारेण पराघातं शत्रुवधम् अविस्मरन् असावरिः कस्यचित् । 'अधीगर्थ -' इति कर्मणि षष्ठी । अस्मरत् । युक्तमेतत् । यतः — शूरो यदर्थे यतते तदर्थ कथं विस्मरेत् ॥
सि पयोऽस्तीति कुण्डोनीनां फलं भवेत् ।
समेत्य भुक्तमात्मीयं तत्संभुक्तं मया धनम् ॥ ६१ ॥
नन्विति ॥ ननु ऊधसि पयो दुग्धम् अस्ति इत्येव कुण्डोनीनां फलं भवेत् । अतो यदात्मीयं स्वकीयं धनं मया प्रतिविष्णुना समेत्य मिलित्वा भुक्तं तदेव संभुक्तं स - म्यग् भुक्तम् ॥
रणे प्राणाः सदातिथ्यं प्रीणितास्तथ्यमर्थिनः । निःशेषास्तस्य ते मेऽस्य भुक्तशेषा हि कीर्तयः ॥ ६२ ॥
रण इति ॥ रणे प्राणाः आतिथ्यं भजन्ते । तथा निःशेषाः समस्ता अर्थिनो याचकाः तथ्यं सत्यं प्रीणिताः । युक्तमेतत् । हि यतः - तस्य ते, अस्य मे, कीर्तयो भुक्तशेषा भुकोद्धृता भवेयुः ॥
भुज्यतेऽवारपारीणं मयैकेनार्जितं यशः ।
सोऽयं लोभो गुणो वास्तु सहभोगो न सह्यते ॥ ६३॥
भुज्यते इति ॥ एकेन एकाकिना मया अवारपारीणं पारावारगामि यशोऽर्जितं सद्भुज्यते । सोऽयं लोभः कार्पण्यं गुणो वास्तु । यतः - सहभोगः शत्रुणा सह मिलित्वा भोगो न सह्यते सोढुं शक्यते ॥
अरावणञ्जगद्विश्वं करवै तदविष्णु वा ।
नयोक्तव्याजरासंधं वागितोऽन्या न वर्तते ॥ ६४ ॥
अरावेति ॥ तद् विश्वं समस्तं जगदरावणं रावणरहितम्, अविष्णु लक्ष्मणरहितं वा करवै । इतोऽस्याः प्रतिज्ञाया अन्या नयोक्तव्या नयेन उक्तं व्यं संवरणं यया सा नीतिप्रतिपादितसंवरणा अजरा नूतना वाग् असंधम् अप्रतिज्ञं यथा स्यात्तथा, नवर्तते ॥ भारतीये – अरौ शत्रौ, अणन् गर्जन् अहमविष्णु नारायणरहितम् अजरासंध जरासंधरहितं वा ॥
-
इति चक्रस्य तत्कालमध्यगादभियोगतः ।
अकालचक्रं लोकोऽयमध्यगादभियो गतः ॥ ६५॥
(समपादयमकम् )
इतीति ॥ तत्तस्मात्कारणादित्युक्तप्रकारेण अभियोगत उद्यमात, चक्रस्य कालमवसरम् अध्यगात् स्मृतवान् । तथा अभियोऽभयाद् गतो निर्यातोऽयं लोकोऽकालचक्रम्, अध्यगात् ज्ञातवान् ॥
२७