SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २०८ काव्यमाला | प्राप्य मण्डल स्थिति परिवेषं मन्त्रचक्रम् आपतन् करं किरणं हस्तम् आधुनानः कम्पयन सन्नश्वसीदुल्ललास ॥ सदिक्षाममायासीत्पक्षिराजो रुरुत्सया । सदिदं क्षाममायासीच्चिन्तयेवाहिमण्डलम् ॥ ५६ ॥ (पादयमकम् ) स दीति ॥ स पक्षिराजो गरुडो रुरुत्सया रोद्धुमिच्छया अमा युगपत् दिदंक्षां दंष्टुमिच्छाम् अयासीत् प्राप्तवान् । तथा च इदमहिमण्डलं सर्पवृन्दं क्षामं क्षीणं सत् चिन्तया इव आयासीत् खेदमनुभवति स्म ॥ पलायांचक्रिरे नागा नैव नागान्महानृपाः । निस्तुदन्नपि चञ्चवा तान्गरुत्मान्पर्णवायुना ॥ १७ ॥ वनेऽपूरि रिपूनेव नेयताक्षक्षतायने । पूतानेककनेता पूरिक्षकर्यर्यकक्षरि ॥ १८ ॥ ( युग्मम्) ( गतप्रत्यागतपादः) पलायामित्यादि ॥ नागाः सर्पाः पलायांचक्रिरे, महानृपा नरेन्द्राः नैव पलायांचक्रिरे । पूतानेककनेता पूताः पवित्रीकृता अनेके येन तादृशः कस्य विष्णोर्नेता वाहकः, पविश्रीकुर्वद्विष्णुवाहकः पूः पवमानः प्लवमानो गरुत्मान् गरुडोऽपि तान् नागान्, चश्चा निस्तुदन् सन्, नेयताक्षक्षतायने नेयानां प्राप्ये गम्ये पदार्थे च रथे नेयः प्रवर्तते' इत्युक्ते रथानां तेषु, ‘विस्तारे जनके चक्रे तशब्दोऽप्यभिधीयते' इत्युक्तेः। चक्रेषु अक्षैश्चक्राधारकठैः क्षतानि खण्डितानि अयनानि मार्गा यस्मिन् तादृशि, रिक्षकर्यर्यकक्षरि रिक्षक - रिणो हिंसगजा अर्यकक्षरो अर्यस्य 'स्वामिनि नीरदे सूर्ये प्रधानेऽपि च वस्तुनि । देवदन्तिनि वै दक्षैरर्यशब्दोऽभिधीयते ॥' इत्युक्तेः ऐरावतगजस्य कक्षाम् ऋच्छन्ति गच्छन्ति । विच् । ऐरावतस्पर्धाबद्धा यत्र तादृशि, वने, रिपून् एव पर्णवायुना पक्षवातेन अपूरि आप्यायते स्म ॥ इति मोघं बभूवारिर्मन्त्रयुद्धमयुक्त यत् । प्रागनालोचितस्यास्मिन्मन्त्रस्यावसरः कुतः ॥ ५९ ॥ इतीति ॥ अरिर्यन् मन्त्रयुद्धम् अयुत तदित्येवंप्रकारेण मोघं निष्फलं बभूव । युक्तमेतत् । यतः — अस्मिञ्शत्रौ प्रागनालोचितस्य प्रमाणनयनिक्षेपैरविचारितस्य मन्त्रस्य अवसरः प्रस्तावः कुतः कस्मात् स्यात् ॥ अविस्मरन्पराघातमित्थं कस्यचिदस्मरत् । यदर्थं यतते शूरस्तदर्थं विस्मरेत्कथम् ॥ ६० ॥ ,
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy