________________
१८ सर्गः] द्विसंधानम् ।
२०७ नागेति ॥ नागायत्तं सर्पव्याप्तं नमो गगनं सुजित्याभिः शोभनहलीभिर्दारितं विदीर्णम् इव अभूत् । जनः आभिर्मायाभिः सुजित्य अनायासेन शत्रुजित्वा उदितं तं प्रतिविष्णुं न न अगायत् । अगायदेव ॥
दददेऽदोऽदरिद्रोऽरिरदिरौद्रोऽरुरादरी । दूरादरं दरं दद्रुराः ददुर्दरीदरी ॥ ११ ॥
- (यक्षरः) दददे इति ॥ अदरिद्रः पुण्यवान् , अद्रिरौद्रः पर्वतवद्भयानक आदरी आदरवान् दरी भयानकोऽरिरुदः एतत् अरुणं दददे दत्तवान् । आर्द्राः स्निग्धचित्ता अरं शीघ्रं दरं भयं ददुर्गताः । तथा च दूरादरीः कन्दरान् दद्रुर्गतवन्तः ॥
प्रौर्णवीदथ सौपर्णः कीर्णपर्णः फणाभृतः ।
कृष्णोदीर्णोऽर्णवस्याग्निस्तरङ्गानिव घूर्णतः ॥ १२ ॥ प्रौर्णेति ॥ अथारिप्रौढ्यनन्तरं कृष्णोदीर्णो नारायणप्रेरितः सौपर्णो गरुडः कीर्णपर्णः प्रसारितपत्रः सन् घूर्णतो भ्रमतः फणाभृतः सर्पान् । अर्णवस्य समुद्रस्य अग्निर्वाडवानलस्तरङ्गानिव । पौर्णवीत् प्रच्छादितवान् ।
अरुणत्फाणिनगणानुच्चचार समुद्धृतान् । सोऽन्त्राणीव रुषा कर्षन्नुच्चचारसमुद्धृतान् ॥ १३ ॥
__ (समपादयमकम्) अरुणेति ॥ समुत् सहर्षः स सौपर्णः फाणिनगणान् सीयसमूहान्, अरुणद रुद्धवान्। ततश्च उच्चचारसमुद्धतान् उच्चैर्गमनसमुत्क्षिप्तान्, धृतान् अन्त्राणि इव रुषा कर्षन सन् उच्चचार उर्व भक्षितवान् ॥
गरो गिरिगुरुौरैररागैरुरगैररम् । मुमुचेऽमी चमूमुच्चाममाचाममुचोऽमुचन् ॥ १४ ॥
(यक्षरार्ध) गर इति ॥ गौरैः शुक्ररागैरनुरागरहितैरुरगैः सपँगिरिगुरुः पर्वतगरिष्ठो गरो गरलं मुमुचे मुक्तः । अमी उरगा आचाममुचो भक्षणमुक्ताः सन्तोऽमा. युगपद् उच्चां चमूम् अमुचन् मुक्तवन्तः ॥
आधुनानः करं भानुरापतन्मण्डलस्थितिम् । . .
प्रयोगं गारुडं प्राप्य नागदष्टोऽश्वसीदिव ॥ ५५ ॥ आधुनेति ॥ भानुः सूर्यः । नागदष्टः सर्पदष्टः पुरुष इव गारुडं गरुडकृतं प्रयोगं