________________
२०६
काव्यमाला ।
नागाननागा गगने सज्जानिः सासृजोऽसृजत् । रिपुः प्रपपरुः पापाः परपारपरम्पराम् ॥ ४५ ॥
(यक्षरपादः) नागेति ॥ अनागा निरपराधः सज्जाजिः प्रगुणितरणो रिपुः, सासृजः सरुधिरान्, नागान् सर्पान्, असृजन्मुक्तवान् । तथा च पापा नागाः परपारपरम्पराम् परं शत्रु पिपुरति धरन्ति तेषां परपाराणां शत्रुभृत्यानां परम्परां श्रेणी प्रपपरुः प्रपूरितवन्तः ॥
जलवेणीति संतुष्य तत्रासादित सा हसम् । विष्णोश्चमूर्विभाव्याहिं तत्रासादितसाहसम् ॥ ४६॥
(पादयमकम्) जलेति ॥ विष्णोर्नारायणस्य सा चमू: सेना तत्र रणे जलवेणी जलधारा इति विभाव्य संतुष्य हसं हास्यम् आदित गृहीतवती । तथा आसादितसाहसम् आसा दितं साहसं येन तादृशम्, अहिं सर्प विभाव्य तत्रास ॥
अधोऽधः पेतुरानीलाल्लेलिहानान्कृशानवः ।
वर्षतो विषमम्भोदानशनेरिव राशयः ॥ ४७ ॥ अध इति ॥ कृशानवोऽनय आनीलान् ईषन्नीलान् विषं गरलं वर्षतो लेलिहानान् सर्पान् । अशने राशयो विद्युत्पुञ्जा आनीलान् समन्ततो नीलान्, विषं जलं वर्षतोऽम्भो. दान्मेघान् इव । अधोऽधः अधस्तात् । 'द्वितीयामेडितान्तेषु' इति षष्ठयर्थे द्वितीया । पेतुः पतिताः ॥ ___ वर्माण्याप्रपदीनानि दीनानि बिभिदुः सदा । दुःसदा भुजगोपाया गोपाया दुर्मुखे वृथा ॥ ४८ ॥
(शृङ्खलायमकम्) वर्मेति ॥ दुःसदा दुर्गम्या भुजगोपायाः सर्पव्यापाराः आप्रपदीनानि आगुल्फप्राप्तानि । 'आप्रपदं प्राप्नोति' इति खः । सदा दीनानि क्षीणानि, वर्माणि संनहनानि बिभिदुः । यु. क्तमेतत् । गोपाया रक्षा दुर्मुखे दुर्जने वृथा भवति ॥ . सर्पवेणी विसर्पन्ती दानधारेव दन्तिनः।।
कटयोराकुला भ्रेजे शृङ्खला पादयोरिव ॥ ४९॥ सपैति ॥ आकुला व्याकुला सर्पवेणी पन्नगश्रेणी कटयोः कपोलयोविसर्पन्ती विजृम्भमाणा सती दानधारेव, पादयोर्विसर्पन्ती शृङ्खलेव, भेजे शोभिता ॥
नांगायत्तं सुजित्याभिनभोऽभूदिव दारितम् । नागायत्तं सुजित्याभिर्मायाभिर्नोदितं जनः ॥ ५० ॥
(पादयमकम्)