________________
१८ सर्गः]
द्विसंधानम् ।
__
२०५
सामीति ॥ अहो आश्चर्य सा द्विपावलिः सामि अर्ध मीलच्चक्षुरमिमीलत् । अस्या द्विपावले: किं नवपुष्करं शुण्डादण्डाग्रं वपुः शरीरं करणमिन्द्रियजातं वपुरोजो नामिमी. लत् । अमिमीलदेव ॥
अत्यन्तीनां हयालीयं सालिलचिषत स्यदात् । निसर्गः कश्चिदस्यास्ति शक्तस्यान्यस्य चाङ्गिनः॥ ४० ॥
(निरोष्ठयः) अत्यन्तीति ॥ सा इयं अत्यन्तीनाम् । अवारपार-' इति खः ।भृशंगामिनी हयाली स्यदाद वेगादलिलषित लचितुमिष्टवती । शक्तस्य समर्थस्य, अन्यस्य भीरोः, अस्य अङ्गिनः, कश्चित् निसर्गः स्वभावोऽस्ति ॥
रवेरावरणं चापी कुर्वाणः शरणं शरैः।।
कृष्णो मेघो जगजोंच्चैर्व्याप्योपककुभं भुवः ॥ ४१ ॥ वेरिति ॥ चापी धनुष्मान् कृष्णो लक्ष्मणो विष्णुश्च शरैर्बाणै रखेः सूर्यस्यावरणं प्र. च्छादनं भुवः पृथ्व्याः शरणं विदारणं कुर्वाणः सन् । चापी शक्रधनुष्मान्, रवेरावरणम्, शरैर्जलैः, भुवः शरणं कुर्वाणः, कृष्णो मेचकः, मेघ इव । उपककुभं दिशं दिशं प्रति । 'झयः' इति समासान्तः । व्याप्य, उच्चैरत्यर्थ जगर्ज ॥
अमरिष्यजनः पूर्व धूमध्यामाग्निशङ्कया।
विद्युत्वन्तं धनं वीक्ष्य नामोश्यच्चेत्स विग्रुषः ॥ ४२ ॥ अमरीति ॥ जनो विद्युत्वन्तं तडिद्युक्तं घनं वीक्ष्य स घनो विग्रुषो जलकणान्, चेत् न अमोक्ष्यत, तदा धूमध्यामाग्निशङ्कया धूमध्यामलवतिभ्रान्त्या पूर्व प्रथमम् अमरिष्यत् ॥
भूरिरभ्रमरो रेभी कोऽनेकानीककाननम् । काकालिकी किलाकाले नोपापापोऽपि नापपुः ॥ ४३ ॥
(यक्षरपादः) भूरीति ॥ किल लोकोक्तौ भूरिः प्रचुरो रेभी ध्वनिमान् कोऽभ्रमरो मेघसमूहोऽनेकानीककाननं प्रचुरसैन्यकान्तारम्, अकाले असमये न उपाप व्याप । का अकालिकी विद्युत् प्रकरणात् न उपाप । अपि तु व्यापैव । आपो जलानि अपि न आपपुः ॥
रणमेकार्णवं कर्तुमारेभेऽभ्रं शनै रसत् । अभूद्वह्निरपां घोरैरारेभे भ्रंशनैरसन् ॥ ४४ ॥
___ (समपादयमकम्) रणमिति ॥ अभ्रं मेघः, शनैर्मन्दमन्दं रसत् वदत् । सत् एकार्णवं रणं कर्तुम् आरेभे प्रारब्धवान् । तथा घोरैर्भयानकैरपां भ्रंशनैः संघटनैः, आरेभे गर्जे सति असन्नविद्यमानो वतिः विद्युत्पातातू अभूत् संजातः ॥