________________
२०४
काव्यमाला।
लोलध्वजौ वहद्वाजिवेलौ तद्वत्तयो रथौ ।
युद्धाम्बुधौ द्विनावं चेदन्योन्यमभिपातुकम् ॥ ३४ ॥ लोलेति। चेद् यदि द्विनावं नौद्वयसमाहारः । 'नावो द्विगोः' इति टच्। अन्योन्यम् अभिपातुकं संमुखागमनशीलं स्यात् । तर्हि लोलध्वजौ चञ्चलकेतू, वहद्वाजिवेलौ वहन्तौ वाजिनावेव वेला ययोस्तौ, तयोर्विष्णुप्रतिविष्ण्वोः रथौ युद्धाम्बुधौ रणसमुद्रे, तद्वत् द्विनाववत् स्याताम् ॥
स मेनेऽनेन सामर्थ्यमग्रे युधि दिवौकसाम् । समेनेऽनेनसामर्थ्यमीयमानमरातिना ॥ ३५ ॥
(समपादयमकम्) स इति ॥ स विष्णुरने भाविनि, समेने समानस्वामिनि, युधि, अनेनसां पुण्यवतां दिवौकसां देवानाम्, अर्थ्य श्लाध्यम्, अनेन अरातिना सह ईयमानं प्राप्यमाणं सामर्थ्य मेने ज्ञातवान् ॥
अरिरस्त्रं रणेऽस्राक्षीदाग्नेयं धीरदीधिति ।
अक्षान्ति हृदयेऽनेकां निःसहं लङ्घयन्यथा ॥ ३६ ॥ अरिरिति ॥ अरिः शत्रुहृदये हृदि अनेकां प्रचुराम्, अक्षान्तिमक्षमां लक्ष्यन् अतिक्रामन् यथा इव आग्नेयं वद्विविकारं धीरदीधिति धीरदीप्ति, निःसहं दुःसहम्, अस्त्रं शस्त्रम्, अस्राक्षीत् मुक्तवान् ॥
कोपः कश्चिज्ज्वलत्यस्य कनकाश्मस्य किं द्रवः ।
किं किंशुकवनं फुल्लं किं जिह्वा समवर्तिनः ॥ ३७ ॥ कोप इति ॥ अस्य शत्रोः कश्चित् कोपः कनकाश्मस्य सुमेरोः । 'अनोश्मायः' इति टच् । द्रवः किम्, फुलं पुष्पितं किंशुकवनं पलाशवनं किम्, समवर्तिनो यमस्य जिह्वा किम्, इति भ्रान्तिमुत्पादयन् ज्वलति दीप्तो जायते ॥
इत्याशङ्कय चिराज्जज्ञे संतप्तै रुकैः शिखी।
दृष्टया शूरैः पराच्छेदि भिदेयं भीरुधीरयोः ॥ ३८ ॥ इतीति ॥ इत्येवंप्रकारेण आशङ्कय आशङ्कामुत्पाद्य चिरात् संतप्तै रुकैर्भयवत्पुरुषैः, दृष्ट्या अवलोकनमात्रेण शिखी दहनास्त्रम्, जज्ञे ज्ञातः । शूरैः पराच्छेदि परिच्छिन्न इयं भीरुधीरयोभिदा भेदः ॥
सामिमीलदहो चक्षुः सामि मीलद्द्विपावलिः । नवपुष्करमस्याः किं न वपुष्करणं वपुः ॥ ३९ ॥
(पादादियमकम्)