________________
१८ सर्गः]
'द्विसंधानम् ।
२०१
धोरणहस्तिका सुप्ता आधोरणा हस्तिपका येषां तादृशो हस्तिनो यत्र, अक्षधःसुप्तसारथिरक्षधुरि सुप्ताः सारथयो यस्यां तादृक् सेना भिया भयेनेवाङ्गमाक्षिपदाक्षिप्तवती ॥
ससास स स सांसासि यं यं यो यो ययुं ययौ । नानन्नानन्ननोनौनीः शशाशाशां शशौ शशः ॥ १९ ॥
. (एकाक्षरपादः) ससासेति ॥ यो यः पुरुषः, यं यं ययुमश्वं ययौ प्राप स स पुरुषः सांसासि अंसे स्कन्धेऽसिना सहितो यथा स्यात्तथा ससास सुष्वाप । तथा-अनोनौनी: अनोनावं नयति रथप्रवहणप्रेरकः ना पुमान् अनन् श्वसन् न आनत् श्वसिति स्म । तथा-शशः अब्जः पशुः शशाश प्लुतं गतवान् । आशां वाञ्छां शशौ तनूचकार ॥
द्राग्दानोच्छेदभीत्येव प्रासं शक्तिमसिं शरम् ।
पाशं परश्वधं शस्त्रीं ववर्षास्त्रमयो रिपुः ॥ २० ॥ द्रागिति ॥ अस्त्रमयो रिपुर्दानोच्छेदभीत्या खण्डनोच्छेदभयेन द्राक् शीघ्रं प्रासं शक्तिम् असि शरं पाशं परश्वधं शस्त्री ववर्ष ॥
रैरोऽरिरीरुरूरारा रोरुरारारिरैरिरत् । रुरूरोरुरुरारारुरुरुरुरुररेरुरः ॥ २१ ॥
(एकाक्षरः) रैरविति ॥ रैरः अरिरीः उरू: आराः रोरुः आरारिः ऐरिरत् रुरूरोः उरुः आर.अरुः उरुः उरुः अरेः उरः इति पदानि ।। रैरः रायं राति तादृक्, रोरुः रोरवीति सः । यङ्लुगन्ताद्विच् । अत्यर्थ शब्दं कुर्वाणः, आरारिः आरस्यारिसमूहस्यारिः, उरुर्गरिष्ठः, अरिरी: अरिणा अरवता चक्रेण रिणाति हिनस्ति स प्रतिविष्णुः (कर्ता) उरूव॑हतीः, आराः शस्त्रविशेषान् (प्रयोज्यकर्म) (शत्रून्) ऐरिरत् प्रेरितवान् । तथा च उरुगरिष्ठः, रुरूरोः रुरोरिवोरू यस्य तादृशः, अरेः शत्रोः, उरुः, उरो वक्षश्च, अरुणम्, आर प्राप्तवान् ॥
याष्टीकन्ते स्मरव्यग्रा खेऽमरस्त्रीम॒ताश्च ताः। याष्टीकं ते स्म रव्यग्रास्तं प्रतीच्छन्ति नाभितः ॥ २२ ॥
(समपादयमकम्) याष्टीति ॥ च यतः-मृता भटाः याः खे दिवि स्मरव्यग्राः सन्ति ता अमरस्त्रीर्देवाङ्गनाः टीकन्ते लभन्ते । अतः रव्यग्राः सूर्यवत्प्रधाना ते भटाः तं याष्टीकं यष्टिप्रहरणसमरम् अभितः सामस्त्येन किं न प्रतीच्छन्ति स्म । अपि तु प्रतीच्छन्ति स्मैव ॥
एकः सर्वास्त्रसंग्राहः शिलेयं चालयन्नुरः। दिक्पालानां समाहारश्चलन्निव चचाल सः ॥ २३ ॥
२६