________________
२०२
काव्यमाला । एक इति ॥ एक एकाकी असहायः सर्वास्त्रसंग्राहः सर्वेषामस्त्राणां संग्राहोऽङ्गीकरणं यस्य तादृक् स प्रतिविष्णु: चलन् क्षोभं गच्छन् दिक्पालानां समाहार इव । शिलेयं शिला. तुल्यकठोरमुरो वक्षश्चालयंश्चचाल ॥
असत्कमशिरोऽश्वीयं हास्तिकं चित्तमोहतः । पपात वञ्चन्न स्मासौ हास्ति कंचित्तमोहतः ॥ २४ ॥
(समपादयमकम्) असेति ॥ चित्तमोहतो वैचित्त्यात् असत्कम् अनष्टीवत्कम् अश्वीयमश्वसमूहः, चित्तमोहतः अशिरोऽमस्तकं हास्तिकं गजसमूहः पपात । हा कष्टं तमोहतः कोपाविष्टः असौ कंचित् वञ्चन् त्यजन् न अस्ति स्म ॥
अंसोत्सेधेन सोत्सेकस्त्रिमूर्ध इव केशवः ।
पापपाक इवामुष्य प्राभवत्पारिपन्थिकः ॥ २५ ॥ अंसविति ॥ अंसोत्सेधेन स्कन्धोच्छ्रयेण त्रिमूर्धस्त्रिमस्तक इव, सोत्सेकः सगर्वः, केशवः, अस्य प्रतिविष्णोः, पापपाक इव पारिपन्थिकः प्रतिषेधकः प्राभवत् ॥
मणेः प्रत्युरसस्यासीत्सुप्रातीकुर्वता जगत् ।
रवेः सर्वपथीनेन तेजसेवोदयाचलः ॥ २६ ॥ मणेरिति ॥ केशवः प्रत्युरसस्योरसि स्थितस्य मणेः कौस्तुभस्य रवेरिव जगत् भु. वनं सुप्रातीकुर्वता सुप्रभातीकुर्वता, सर्वपथीनेन सर्वान्पथ आप्नुवता, तेजसा उदया. चल इव आसीत् ॥
वीरारिवैरवारी वै वने रविरिवोर्वराम् । विवोवरैरविवरैरवोवावा विराववान् ॥ २७ ॥
(द्वयक्षरः) वीरेति ॥ वीरारिवैरवारी वीराणामरीणां वैरं वारयति प्रच्छादयति तच्छीलः, अवोवावा अवोऽपराधलक्षणं तमो वनति संभनक्ति ।वनिपि प्रत्यये 'विडनोः' इति आत्वम् । अनीतितमोभञ्जकः, विराववान् गम्भीरध्वनिमानी, केशवः रविरिव सूर्य इव उर्वरां सवंशस्याख्यभूमिम्, अविवनिबिडैः, विवोवरैः तेजोमण्डलैः, वत्रे प्रच्छादितवान् ॥
योऽयेयाययियायायं पापापापोपपान्पपौ। नृननूनानिनोऽनेनास्तत्तत्तातोऽतताततिम् ॥ २८ ॥
(एकाक्षरपादः) ' य इति॥अयेयायःअयेयोऽगम्यः अयो यस्य ताहा,अगम्यगमनः यः इनः स्वामी, आयं द्रव्योत्पत्तिस्थानम्, इयाय, स अनेनाः पापरहितः, इनः, पापापापोपपान् पापमपराधम् अप,