________________
२००
काव्यमाला ।
सहेति ॥ सहः समर्थः स रावणो जरासंधश्च प्रतापानौ विभ्रजिषुः पक्तुमिच्छुः संधिः त्सुतां संधानमिच्छुतां बिनद् दधद् इव ताभ्यां लोकप्रतीताभ्यां हस्ताभ्यां चमूहस्ती सेनापाविपीडयत् ॥
प्रापूरयन्नमस्त्रातः शिक्षामार्गेण मार्गणैः । प्रापूरयं न भस्त्रातस्ते निर्याताः पुरोगतैः ॥ १४ ॥
(विषमपादयमकम् ) प्रापूरेति ॥ शिक्षामार्गेण त्रातो (रावणो जरासंधो वा) मार्गणैर्वाणैर्नभो गगनं प्रापूरयत् । तथा ते मार्गणाः भस्त्रात इषुधेनिर्याताः सन्तः पुरोगतैरग्रगतैर्मार्गणैः सह रयं वेगं (किम्) न प्रापुः । अपि तु प्रापुरेव ॥
प्रस्वापनास्त्रमसृजत्स तामसमयोऽदयम् । द्विषां तेनाकरोन्मोहं सतामसमयोदयम् ॥ १५ ॥
(समपादयमकम्) प्रस्वापेति ॥ तामसमयः कोपनिर्वृत्तः स प्रतिविष्णुरदयं यथा स्यात्तथा प्रस्वापनास्त्रं प्रकर्षनिद्राशस्त्रम् असृजत् मुक्तवान् । तेन प्रस्वापनास्त्रेण सतां विद्यमानानां द्विषां शत्रुणाम् असमयोदयम् अनवसरोदयं मोहम् अकरोत् ।।
मत्तसुप्तामिव चमू तां तमोघमयोऽजयत् । शरभिन्नं धियारीणां तान्तमोघमयोजयत् ॥ १६ ॥
(समपादयमकम्) मत्तेति ॥ तमोघमयोऽविवेकपापनिवृत्तः स प्रतिविष्णुस्तां चमू मत्तसुप्तां पूर्व मत्तां पश्चात्सुप्ताम् इव अजयत् । तथा अरीणाम् ओघं वृन्दं शरभिन्नं बाणजर्जरितम् धिया बुद्ध्या तान्तं खिन्नम् अयोजयत् ॥
अरयो भीरवश्चक्रे जाताश्चित्रार्पिता इव । अरयो भीरवश्चक्रे व्याकुलैस्तद्वधूकुलैः ॥ १७ ॥
(विषयपादयमकम् ) अरय इति ॥ भीरवो भयवन्तोऽरयः शत्रवश्चक्रे चक्रव्यूहे चित्रार्पिता इव जाताः । तथा च व्याकुलैर्व्यग्रैस्तद्वधूकुलैररातिवधूवृन्दैररयो मन्दो भीरवो भयध्वनिश्चक्रे कृता ॥
अश्वोरसपतत्पत्तिः सुप्ताधोरणहस्तिका ।
सेनाक्षिपद्भियेवाङ्गमक्षधूःसुप्तसारथिः ॥ १८ ॥ अश्वेति ॥ अश्वोरसपतत्पत्तिरश्वोरसेनाश्वप्रधानोरसा पतन्तः पत्तयो यस्यां सा, सुप्ता