SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८ सर्गः ] द्विसंधानम् । नरेति ॥ मत्कोपाग्निर्मत्क्रोधानलो रघूर्णाविदाहेन रघूणां रघुवंशजानाम् ऊर्णायास्तत्सदृशस्य शिरोभूतस्य रामस्य विदाहेन भस्मीकरणेन न, वा अथवा हानुमताद्धनुमत्संबन्धिनो रणात् न, केशवक्लेशाल्लक्ष्मणव्यथातोऽपि अद्य न प्रशाम्यति || भारतीये – नरघूर्णाविदाहेन नरस्यार्जुनस्य घूर्णया भ्रमणेन विदाहेन संक्लेशेन । वाहानुमतादश्वाभीष्टात् । केशवक्लेशाद् वासुदेवपीडातः ॥ इत्यतोरावणो रोषसिद्धेस्ताम्यन्निवात्मनि । बहुधामागधैर्योऽसौ वीरैश्चक्री रणं ययौ ॥ ९ ॥ इत्यत इति ॥ बहुधामा प्रचुरप्रतापः, अगधैर्यः स्थिरधैर्यः असौ रावणश्चक्री चक्रवर्ती इत्येवंप्रकारेण अतोऽस्याः रोषसिद्धेरात्मनि ताम्यन्निव वीरैर्भटै रणं ययौ ॥ भारतीये – यो जरासंधनामा चक्री चक्रवर्ती स इत्येवंप्रकारेण अतोऽस्या अरौ शत्रौ अणोरल्वायाः गेषसिद्धेरात्मनि निजे असौ खड्ने ताम्यन्निव बहुधा अनेकधा मागधैर्मगधदेशीयैवारैः क्षत्रियैः सह रणं ययौ ॥ जित्वारयः सुखं बन्धून्प्राध्वं कृत्यविचक्षणे । इति चित्तेऽमुना वैरं प्राध्वंकृत्य विचक्षणे ॥ १० ॥ १९९ (समपादयमकम् ) जित्वेति ॥ अमुना रावणेन जरासंधेन च, हे अरयः शत्रवः, यूयं बन्धूत्र जित्वा सुखं यथा स्यात्तथा प्राध्वं तिष्ठत इति कृत्यविचक्षणे कार्यकुशले चित्ते वैरं प्राध्वंकृत्य बद्धा विचक्षणे हसितम् । उपसर्गवशाद्धातोरर्थान्तरे वृत्तिः ॥ पशुवच्छादयन्भीरुञ्शूरानच्छादयं समम् । हृद्यस्वच्छादयन्धातोरनैः स्वच्छादयन्नभः ॥ ११ ॥ (पादमध्ययमकम् ) पश्विति ॥ अयं रावणो जरासंधश्च । हृदि अन्तःकरणे अस्वच्छात्कुटिलात् धातोरभिप्रायात् अयन् गच्छन् भीरून् पशुवत् पशूनिव शादयन् सन् समं युगपत् शूरान् अच्छाद् अच्छिनत् । नभो गगनं स्वच्छादयत् अतिशयेन छादयति स्म ॥ वक्षसासौ पुरोभागं तेजसादित्यमुर्वराम् । शस्त्रैरघुक्षतोद्यतः कीर्त्या तस्तारदिङ्मुखम् ॥ १२ ॥ वक्षसेति ॥ असौ रावणो रघुक्षतोद्यतो रघुवधोद्यतः सन् वक्षसोरसा पुरोभागं सुभटानामुपसारणम्, तेजसा आदित्यम्, शस्त्रैरुर्वरां भूमिम्, कीर्त्या दिङ्मुखम् तस्तार संतवान् ॥ भारतीये – असौ खड्ने उद्यत उद्युक्तो जरासंधः, यतः तेन तेन तं तम् अघुक्षत समवृत । अतः कीर्त्या तारदिब्युखं विशदाशामुखम् अघुक्षत ॥ स हस्ताभ्यां चमूहस्तौ सहस्ताभ्यामपीडयत् । विभ्रज्जिषुः प्रतापानौ बिभ्रत्संघित्सुतामिव ॥ १३ ॥ (पादादियमकम् )
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy