________________
१९८
काव्यमाला |
भवेयुरन्ते विरसाः समं देहा विभूतयः । राज्ञां माहंक्रिया भूवन्समन्देहा विभूतयः ॥ ३ ॥
(समपादयमकम् )
भवेयुरिति ॥ देहाः कायाः, विभूतय ऐश्वर्याण्यन्ते अवसाने समं युगपद् विरसा भवेयुः । परंतु राज्ञां नृपाणाम् अर्हक्रिया अहंकाराः विभूतयो विनष्टा भुवः पृथ्व्या ऊतयो रक्षा याभ्यस्तादृशः, समन्देहा मन्दयेहया सहिता, माभूवन् ॥
उत्तरेऽर्थे कृतार्थत्वं नान्तराले कृते परम् । लज्जालुतोत्तरीयेण नान्तरीयेण केवलम् ॥ ४ ॥
(समपादादियमकम् )
उत्तरेति ॥ उत्तरेऽर्थे प्रयोजने सिद्धे न परं केवलं कृतार्थता, किंतु अन्तराले मध्ये एवार्थे कृते सति । यथा केवलम् उत्तरीयेण वस्त्रेण न लज्जालुता, किंतु अन्तरीयेणाधोवस्त्रेणैव ॥
स्थेयान्माहाकुलः स्वान्ते निजमालम्ब्य पौरुषम् ।
स्थेयान्मा हा कुलः स्वान्ते भीतं मुञ्चति नान्तकः ॥ ५ ॥ (विषमपादाद्यन्तयमकम् )
स्थेयानिति ॥ स्वान्ते चित्ते स्थेयान् स्थिरतरो माहाकुलो महाकुलीनः स्वान्ते स्वावसाने आकुलो व्यग्रः सन् निजमात्मीयं पौरुषम् आलम्ब्य धृत्वा मान स्थेयात् इति हा कष्टम् । अपि तु तिष्ठत्वेव । यतः भीतं जनम् अन्तको न मुञ्चति ॥ स्थिर प्रकृतिरादेयः केषांचन न चञ्चलः ।
पिङ्गलोऽप्यर्च्यते काको मङ्गलार्थे न केनचित् ॥ ६ ॥
स्थिरेति ॥ स्थिर प्रकृतिर्निश्चलस्वभावः, आदेयो ग्राह्यो भवति, केषांचन केषामपि चञ्चलो न । यतः पिङ्गल उलूकोऽपि मङ्गलार्थम् अर्च्यते पूज्यते । केनचित्केनापि काको नार्च्यते ॥
असि भुजमहं धैर्य स मन्त्रिभ्योऽधिकोचितम् ।
गणयन्करवै शत्रुं समं त्रिभ्योऽधिकोचितम् ॥ ७ ॥
(समपादयमकम् )
असिमिति | सोऽहं मन्त्रिभ्यः सचिवेभ्योऽधिकोचितमधिकयोग्यम् असिं भुजं धैर्य गणयन् सन् समं युगपत्, त्रिभ्योऽसिभुजधैर्येभ्योऽधिकोचितं संकोचितं शत्रुं करवै ॥ नरघूर्णाविदाहेन न वाहानुमताद्रणात् ।
नाप्यद्य केशवक्लेशान्मत्कोपाग्निः प्रशाम्यति ॥ ८ ॥