________________
१८ सर्गः] द्विसंधानम् ।
. १९७ नीत्वा पार्श्वनोमयेनापि निद्रां युद्धोत्स्वप्नेनेव नागा विबुद्धाः । शत्रोश्छत्रं हैममाशङ्कय बालं हस्तावृत्त्याक्रष्टुमैच्छन्निवार्कम् ॥९० ॥ नीत्वेति ॥ युद्धोत्स्वप्नेन रणोद्गतस्वप्नेन विबुद्धा नागा गजा निद्रा नीत्वा समाप्य बालं नवोदितम् अर्के भानु हैमं हिरण्मयं शत्रोश्छत्रम् आशङ्कय उभयेनापि पार्श्वन हस्तावृत्त्या शुण्डादण्डपरावृत्त्या बालमर्कम् आक्रष्टुम् इव ऐच्छन् ॥ शालिनी ॥
लक्ष्मी खलामुभयभागितया विलोलां ___ स्वीकर्तुमेष गणिकामिव जागरूकः । संना मुञ्च शयनं प्रधनं जयेति
स्तुत्यैः परं हरिरबोध्यत सूतपुत्रैः ॥ ९१ ॥ लक्ष्मीमिति ॥ स्तुत्यैः प्रशंसनीयैः सूत्रपुत्रैः प्राभातिकमङ्गलपाठकपुत्रैः 'गणिकाम् इव' उभयभागितया जिगीषुप्रतिजिगीषुभजनशीलतया खलां प्रतारणपरां विलोलां चचलां लक्ष्मी स्वीकर्तु जागरूको जागरणशीलः हरिर्लक्ष्मणो नारायणश्च 'हे देव, शयनं शय्यां मुञ्च संनय प्रधनं समरं जय' इत्येवंप्रकारेण परं केवलम् अबोध्यत बोधं नीतः ॥ वसन्ततिलका ॥ __ इति धनंजयविरचिते राघवपाण्डवीयापरनानि द्विसंधानकाव्ये धनंजयाङ्के रात्रिसंभोगव्यावर्णनं नाम सप्तदशसर्गः समाप्तः ।
अष्टादशः सर्गः । प्रभावै रोचनीयस्य भीतेवोदेतुमोजसः । प्रभा वैरोचनी यस्य वीतोच्छासेव चावनिः ॥ १ ॥
(विषमपादयमकम्) प्रभेति ॥ वैरोचनी भास्करी प्रभा दीप्तिः प्रभावैर्माहात्म्यै रोचनीयस्य भासनीयस्य यस्योजसः प्रतापादुदेतुं भीतेव बभूव । अवनिर्मेदिनी च वीतोच्छासेव बभूव ॥ सर्गेऽस्मिमनुष्टुप् वृत्तम् ॥
तथापि स पुमानन्ते यद्ध्यवस्थितमाकुलम् । सहास्य यशसा शुभ्रं ययवस्थित मा कुलम् ॥ २ ॥
(समपादयमकम्) तथापीति ॥ यद्यपि प्रतापिनो भवेयुस्तथापि तेषु स एव पुमान् यद्यस्मात्कारणात्. यद्यस्मात्पुरुषात्, व्यवस्थितं जातव्यवस्थम्, शुभ्रं स्वच्छं कुलमन्वयो यशसा सहास्य पुरुषस्यान्ते आकुलं व्यग्रं मा व्यवस्थित मा भूत ॥