________________
१९६
काव्यमाला।
निसोटु संवरीतुम् , असहासमर्था सती हासाद्धास्यात् इव स्फुटिता विकसिता आसीत् ॥ इन्द्रवज्रा ॥
अन्योन्यनिद्रावसरं प्रतीच्छद्वन्द्वं न सुष्वाप कृतावधानम् । अध्यात्मतत्त्वानि कषायिताक्षं जागर्यया ध्यायदिव स्मरस्य ॥ ८६ ॥
अन्योन्येति ॥ स्मरस्य कंदर्पस्य अध्यात्मतत्त्वानि परमार्थरहस्यानि ध्यायदिव जागर्यया उन्निद्रतया कषायिताक्षं सरागलोचनम् , द्वन्द्वं मिथुनं अन्योन्यनिद्रावसरं परस्परशयनप्रस्तावम् प्रतीच्छत् परस्परमभिलषत् सत् कृतावधानं विहिततत्परत्वं यथा स्यातथा न सुष्वाप ॥
निधुवनमधुनिद्रामोदशेषैकभारं
पुनरुषसि स कामी योषितोऽङ्गं ललचे । रुचिमपि विदधेऽस्याः क्षामभावं विनीय
प्रशमयति न कं वा लङ्घना शेषदोषम् ॥ ८७ ॥ निधुवनेति ॥ स कामी पुनरुषसि निधुवनमधुनिद्रामोदशेषैकभारं निधवन-मध-निद्राणामामोदस्य शेष एव एको भारो यस्मिस्तादृशं योषितः कामिन्या अङ्गं ललचे लचितवान् । तथा क्षामभावं रतिश्रमं निपीयाकृत्य अस्याः कामिन्या रुचिमभिलाषम् अपि विदधे । युक्तमेतत् । लङ्गना की कं वा शेषदोषं न प्रशमयति ॥ मालिनी ॥
रात्रिवृत्तमलमेवमनूद्य त्वं वधूः खलु विलक्ष्य खलेति । हुंकृतैः प्रतिहतोऽपि सखीभिः स्त्रीरतान्यधिजगौ शुकशावः ॥ ८८ ॥
रात्रीति ॥ हे खल, त्वमेवं रात्रिवृत्तं वधूः कामिनीरलं मा अनूद्य अनुवादीः अलं विलक्ष्य मा लक्षय इत्येवंप्रकारेण सखीभिर्हकृतैः प्रतिहतोऽपि शुकशावः स्त्रीरतानि अधिजगौ अन्ववादीत् ॥ स्वागता ॥
सूर्योऽभ्युदेष्यति कदाजिभरोऽथवेति
ध्यायन्निवाश्वनिवहः स्तिमितान्तरात्मा । पश्यन्निवाक्षिभिरसूचयदूर्ध्वसुप्तो
घोणापुटस्फुरणसूत्करणैर्विबोधम् ॥ ८९ ॥ सूर्य इति ॥ स्तिमितान्तरात्मा निश्चलान्तरात्मा, उर्ध्वसुप्त उर्ध्वनिद्राणोऽश्वनिवहस्तुरंगमसमूहः 'कदा सूर्योऽभ्युदेष्यति अथवा आजिभरः सङ्ग्रामभरः कदा भविष्यति इति ध्यायन्, अक्षिभिर्विबोधं प्रभातं पश्यन् इव' घोणापुटस्फुरणसूत्करणैर्नासापुटसंचरणसूत्करणैर्विबोधं प्रभातम् असूचयत् ॥ वसन्ततिलका ॥