________________
१७ सर्गः]
द्विसंधानम् ।
चित्तं चित्तेनाङ्गमङ्गेन वक्रं वक्रेणांसेनांसमप्यूरुणोरुम् ।
एकं चक्रुः सर्वमात्मोपभोगे कान्ताः पङ्क्तौ हन्त लज्जां ववञ्चः ॥ ७० ॥ चित्तमिति ॥ कान्ता आत्मोपभोगे चित्तेन चित्तम्, अङ्गेनाङ्गम्, वक्रेण वक्रम्, अंसेन अंसम्, ऊरुणा ऊरुम् अपि सर्वम् एकं चक्रुः । हन्त अहो पङ्कौ लज्जां ववनुस्त्यक्तवत्यः ॥ शालिनी ॥
सहस्थितं विस्मृतमङ्गमंशुकं गतं पुनः किं सहजा सखीव सा ।
१९३
कदापि दृष्टेव न संस्तुतेव च त्रपा कुतस्त्यं कुपितं नतभ्रुवः ॥ ७१ ॥ सहेति ॥ नतभ्रुवः कामिन्याः सहस्थितमेकत्रावस्थितम् अङ्गं किं न विस्मृतम् । अंशुकं वस्त्रं किं न गतम् । सा सहजा नैसर्गिकी सखीव किं न जाता । कदापि दृष्टे - व किं न जाता । च पुनः संस्तुतेव किं न जाता । त्रपा च किं न जाता । कुतस्त्यं कुपितं किं न जातम् ॥ बंशस्थवृत्तम् ॥
विलोकभावेषु सहस्रनेत्रता चतुर्भुजत्वं परिरम्भणेऽभवत् ।
समागमे सर्वगतत्वमिच्छवः सुदुर्लभेच्छाकृपणा हि कामिनः ॥ ७२ ॥ विलोकेति ॥ कामिनः सहस्रनेत्रतामिन्द्रताम्, चतुर्भुजत्वं विष्णुत्वम्, सर्वगतत्वमात्मत्वम् इच्छवः सुदुर्लभेच्छाकृपणाः दुर्लभेच्छारहिता आसन् । हि यतः तेषां विलोकभावेषु कटाक्षादिषु सहस्रनेत्रता अनन्तचक्षुर्व्यापारः परिरम्भणे आलिङ्गने चतुर्भुजत्वं (स्त्रीपुंसहस्तसमूहेन) समागमे मेलने सर्वगतत्वं सर्वत्र वनोपवनादिषु गतं गमनं क्रीडार्थ येषां तत्त्वम्, अभवत् ॥
बवासवे प्रेम वधूः प्रियेऽपि त्रप्तुं न धातुद्वयबद्धमैच्छत् । अगूढभावापि ततो विकल्पात्पण्याङ्गनेव द्विमनीबभूव ॥ ७३ ॥
बद्धेति ॥ वधूरासवे मद्ये, प्रिये अपि धातुद्वयबद्धम् 'तृप् प्रीणने,' 'त्रपूष् लज्जायाम्,' इति धातुद्वयेन बद्धम् आसवे तर्पणनिर्मितं प्रिये लज्जानिर्मितं प्रेम बद्धा नियन्त्र्य त्रप् प्रीणयितुं लज्जितुं वा न ऐच्छत् (परस्परप्रतिबन्धात्) । ततस्तस्मात्कारणात् अगूढभावा प्रकटाशयापि सा विकल्पाद्वातुद्वयार्थनिमित्तात्, पण्याङ्गना वेश्या द्विमनीबभूव चित्तद्वैतंगताभूत् ॥ उपजातिः ॥
व्रीडा वासः स्वान्तमङ्कं समस्तं कामार्तानां प्राप शैथिल्यमेका ।
स्वप्नेऽप्यासीन्न श्लथा बाहुपीडा युक्तं द्राघीयःसु मूर्खत्वमाहुः ॥७४ || व्रीडेति ॥ कामार्तानां कामेन ऋतानां कामिनां व्रीडा लज्जा वासो वस्त्रं स्वान्तं चित्तं समस्तं निखिलम् अङ्ग शैथिल्यं शिथिलतां प्राप । एका बाहुपीडा स्वप्नेऽपि श्लथा शिथिला न आसीत् । द्राघीयःसु दीर्घतरेषु मूर्खत्वं युक्तम् आहुः चारुचन्द्रचन्द्रिकाचकोरा विद्वज्जनाः ॥ शालिनी ॥
२५