________________
१९२
काव्यमाला ।
किमु मधुरसितां मुखात्प्रियां प्रशमयितुं रसमुत्पिबन्निव ।
अविरतिरुतनिसनच्छलादजनि जनः सकलां गिलन्निव ।। ६५ ॥ किम्विति ॥ मधुरसितां मधुमत्तां प्रियां प्रशमयितुं मुखात् रसं मद्यस्वभावम् उत्पिबनिव, अविरतिरुतनिसनच्छलात् अविरतिनोविराममप्राप्तयो रुतनिसनयो रतिकूजितचु. म्बनयोश्छलात् सकलां साङ्गोपाङ्गां गिलन्निव जनोऽजनि किमु ॥ अपरवक्रम् ।।
स्तनजघनभरेण भूरिणा दयिततनौ दयिता ममौ गुरुः । पृथुनि निजचले बहुच्छले मनसि हि माति कियत्यसौ तनुः ॥६६॥ स्तनेति ॥ भरिणा स्तनजघनभरेण कुचनितम्बमारेण गुरुदयिता प्रिया दयिततनो नमो अवकाशं लब्धवती । हि यतः कियती असौ तनुः पृथुनि विस्तीर्णे, निजचले स्वतश्चञ्चले, बहुच्छले प्रचुरप्रपञ्चे मनसि माति ॥
क्षेपयन्निव मुखामुखि मानं मानसीं कलुषतां कुसुमेषोः । संबिभाषिषुरिवासवमत्तश्चुम्बनेषु रमणः कणति स्म ॥ ६७ ॥ क्षेपयेति ॥ आसवमत्तो रमणः प्रियश्चुम्बनेषु, मुखामुखि मुखेन मुखेनाश्रित्येदं प्रवृत्तं यथा तथा मानं चुम्बितुमहं कुशल इत्यभिमानं क्षेपयनिव, कुसुमेषोर्मानसीं कलुषतां संबिभाषिषुः संभाषितुमिच्छरिव क्वणति स्म ॥ स्वागता ॥
कोपाश्रुभिः कालवणैः परीतः स्याद्वा स लावण्यमयः प्रियोष्ठः । कुतोऽन्यथा तं पिबतामुदन्या माधुर्यवत्प्रत्युत हन्ति तृष्णाम् ॥६८॥ कोपेति ॥ कालवणैरीषत्क्षारैः कोपाश्रुभिः स्नेहकोपप्रवृत्ताश्रुभिः, परीतो व्याप्तः यः पूर्व मधुरं मधुरमिति कृत्वास्वादितः, स प्रियोष्ठो लावण्यमयोऽमृतमय इव स्यात् । अन्यथा तं प्रियौष्ठं पिबतां प्रियाणाम् उदन्या पिपासा माधुर्यवत् माधुर्येण तुल्यं तृष्णाम् प्रत्युत कुतः हन्ति ॥ उपजातिः ॥
प्रथममधरे कृत्वाश्लेषं व्रणं विदधे वधू
रतिविनिमयः प्रीतेनायं कुतोऽप्यनुशय्यते । स्वयमिति भयात्सत्यंकारं प्रदातुमिवोद्यता
ननु च सबलाः कृत्ये नाम्ना भवन्त्यबलाः स्त्रियः ॥ ६९ ॥ प्रथमेति ॥ वधूः 'प्रीतेन वल्लभेन स्वयमात्मना अयम् अतिविनिमयः पुरुषसंभोगैकगुणस्य स्त्रियाः पुरुषायितसंभोगो द्विगुणस्त्रिगुणो वा स्त्रीपुरुषाश्रितसंभोगैकगुणस्य पुरुषसद्भाषणाद्गुणोपाधेयस्य विनिमयः कुतोऽपि कस्मादपि अनुशय्यते पश्चात्तापविषयीक्रियते' इति भयात् सत्यंकारं प्रदातुम् उद्यता इव प्रथमम् आश्लेषमालिङ्गनं कृत्वा अधरे दन्तच्छेदे व्रणं दन्तक्षतं विदधे विहितवती । 'निदधे' इति पाठे निखातवती । युक्तमेतत् । ननु अहो स्त्रियो नाम्ना अबलाः, कृत्ये सबलाः भवन्ति ॥ हरिणी ॥