________________
१९४
काव्यमाला।
रागं नेत्रे नैव चित्तं मुखं च स्त्रीणां पानान्मानजि जगाहे । द्वेधैकोऽभूहद्धपानोऽपि पाण्डः कान्तास्योष्मखेदभावादिवौष्ठः ॥७९॥
रागमिति ॥ (केवलं) स्त्रीणां कामिनीनां नेत्रे एव रागं न जगाहाते । किंतु चित्तं मुखं च पानात् मानजिह्यं रागं जगाहे । बद्धपानः कान्तास्योष्मस्वेदभावात् वल्लभवदनोच्छवासधर्मत्वादिव पाण्डुः शुक्ल एकोऽपि ओष्ठो द्वेधा अभूत् । अधरस्वरूपापेक्षया रक्तः पानवशात्पाण्डुरिति भावः ॥
देहेषु भोगाय विभक्तिमागतैः प्राणेषु चैक्यं निजमेव कामिभिः । न क्वापि दृष्टा इव मानवृत्तयस्तत्पूर्वदृष्टा इव वल्लभाः परम् ॥ ७६ ॥ देहेष्विति ॥ मानवृत्तयः देहेषु भोगाय स्रक्चन्दनानुशीलनाय विभक्ति भेदम् , प्राणेषु निजमात्माधीनम् ऐक्यमेकीभावं समरसीभावम्, आगतैः कामिभिः क्वापि दृष्टा इव परं केवलं न अभवन् । किं तु वल्लभाः कामिन्यः तत्पूर्वदृष्टा मानवृत्तिपूर्वदृष्टा इव अभूवन् ॥ इन्द्रवंशा॥
असंमनन्ती व्यवधानमक्ष्णोरीचिक्षिषुः पक्ष्म कुचद्वयं च । चित्तव्यवायं परिरिप्सुरीशं प्राणप्रिया कान्तरिता प्रियेण ॥ ७७ ॥
असंमेति ॥ ईशं पतिमीचिक्षिषुरवलोकयितुमिच्छन्ती सती अक्ष्णोर्व्यवधानं पक्ष्म नेत्रपत्ररोम असंमनन्ती अनिच्छन्ती । परिरिप्सुरालिङ्गितुमिच्छन्ती सती चित्तव्यवायं चितस्य मनसो व्यवायो व्यवधानं यस्मात्तादृग् कुचद्वयं स्तनद्वन्द्वम् असंमनन्ती का प्रिया प्रियेण वल्लभेन अन्तरिता व्यवहिता सती प्राणत् जिजीव । न कापि ॥ उपजातिः ॥
तुलयन्निवोभयरसं मदिरां दयितोष्ठमप्यभिपिबन्दयितः । अधरस्य नाल्पमपि सीधुनि तन्मधुनोऽधरेऽधिकमलब्ध रसम् ॥ ७८ ॥ तुलेति ॥ दयित उभयरसं तुलयन्नेव मदिरां दयितोष्ठमपि अभिपिवन् सन् यस्मात्कारणात् सीधुनि मद्ये अधरस्य अल्पमपि रसं न अलब्ध तत्तस्मात्कारणात् अधरे मधुनोऽधिकं रसम् अलब्ध प्राप्तवान् ॥ प्रमिताक्षरा ॥
घनयोः स्तनयोः स्मरेण तन्व्याः परिणाहं परिमातुमुन्नतिं च । रचितेव रसेन सूत्ररेखा नखलेखा विरराज कुङ्कुमस्य ॥ ७९ ॥ घनयोरिति ॥ नखलेखा स्मरेण कंदर्पण तन्व्याः कामिन्या घनयोनिबिडयोः स्तनयोः कुचयोः परिणाहं वर्तुलत्वम् , उन्नतिमुत्सेधं च परिमातुं कुङ्कमस्य रसेन रचिता सूत्ररेखा इव विरराज शुशुभे ॥ औपच्छन्दसिकम् ॥
इत्याशंसुर्नाभिगन्धं मृगाणामन्यद्रागं वीक्ष्य बालामुखस्य । नामोदो मे हा मृगस्यापि नाभेरित्यङ्कात्मव्यङ्गमाधादिवेन्दुः ॥ ८ ॥