SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३ सर्गः] द्विसंधानम् । १४७ आत्मैव स्वयमवधार्यते कथंचिदुर्वारः परिणतमण्डलः प्रतापी । नामेति व्यभिचरितं तदातपत्रैः पूषास्तं गत इव न त्विषं पुपोष॥ १३ ॥ आत्मैवेति ॥ तदातपत्रैर्नरेन्द्रधर्मवारणैः सूर्येण स्वयमेव दुर्वारो दुर्निवारः, परिणतमण्डल: प्रतापी प्रतापवान् आत्मा कथंचिद् महाकष्टेन अवधार्यते । अतएव प्रयाणकाले पूषा सूर्योऽस्तं गत इव त्विषमातपं न पुपोष इति नाम अहो व्यभिचरितम् ॥ निःशेषोऽप्यधिवृषि बद्धचित्रचिह्नो मातङ्गस्तुरगतरङ्गभाजि तुङ्गः । नौसंघः समभिपतन्महाकराग्रं सेनाब्धाववतरदुच्चकर्णधारः ॥ १४ ॥ निःशेष इति ॥ बद्धचित्रचिह्नः नियमितविविधध्वजः, तुङ्ग उच्चः, निःशेषो निखिलः मातङ्गो गजः, उच्चकर्णधारः उच्चकर्णवर्तिकः उच्चैर्नियामको वा। तुरगतरङ्गभाजि वाजि. रूपकल्लोलाश्रिते, आशुगोमिभाजि । सेनाब्धौ अब्धौ इव सेनायां समभिपतन्महाकराग्रमवाकुर्वन्महाशुण्डाग्रं यथा स्यात्तथा अधिवृषि यथा स्यात्तथा अवतरत् ॥ यद्रं निकटतरं हयाः समीयुर्नेदीयो यदतिययुः क्षणादवीयः । दूरस्थं यदसुलभं तदाप्तुकामस्तत्प्राप्तं त्यजति नवप्रियो हि लोकः ॥ १५ ॥ यहरमिति ॥ हया यह्रमासीत् तत् निकटतरं यथा स्यात्तथा समीयुः संगतवन्तः, यद् नेदीयो निकटतरमासीत् तद् दवीयो दूरतरं यथा स्यात्तथा अतिययुरतिक्रान्तवन्तः, हि यतो नवप्रियो लोको यद् दूरस्थमसुलभं तदाप्तुकामो भवति, यत्प्राप्तं तत् त्यजति ॥ वर्धाभिर्विमथितमग्र्यपश्चिमाभिः खेदाम्भः सितरुचि फेनिलं हरीणाम् । रूप्यस्य स्फुरदिव मण्डनं चकाशे केषां वा श्रमफलमुन्नतिं न धत्ते ॥१६॥ ___ वर्षीभिरिति ॥ अय्यपश्चिमाभिरग्रभवपश्चाद्भवाभिवर्धाभिश्चर्मरज्जभिर्विमथितमालो. डितं सितरुचि श्वेतदीप्ति फेनिलं डिण्डीरपिण्डीयुक्तं हरीणामश्वानां स्वेदाम्भः स्फुरद् दीप्यमानं सद्रूप्यस्य रजतस्य मण्डनं भूषणमिव चकाशे । युक्तमेतत् । यतः श्रमफलं केषामु. नतिं न धत्ते ॥ मातङ्गप्रभृतिपदाभिघातधूतः संप्राप्य प्रसरमितस्ततोऽपि पांसुः । आरुक्षन्नपतिशिरःसमुद्धतत्वान्नीचस्य स्थितिरियमद्भुतं न किंचित् ॥१७॥ मातङ्गेति ॥ मातङ्गप्रभृतिपदाभिघातधूतः गजप्रभृतिचरणक्षोदोत्क्षिप्तः ॥ संतप्तस्तपनमरीचिभिः कटाभ्यां नागानां मदगुरुणाग्रपल्लवेन । क्षुण्णोऽपि भ्रमरगणः स्थितोऽनुकर्ण छाया यत्पदमपि सा वरं न तूष्णम्॥१८ संतप्तेति ॥ तपनमरीचिभिः सूर्यकिरणैः संतप्तः, नागानां गजानां कटाभ्यां कपोलाभ्यां सकाशात् मदगुरुणा अग्रपल्लवेन कर्णाग्रभागेन क्षुण्णः क्षोदं नीतोऽपि भ्रमरगणोऽनुकर्ण कर्णपश्चाद्भागे स्थितः । यत्-पदमपि या छाया सा वरम्, न तु उष्णम् ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy