SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १४६ काव्यमाला । शौर्यान्तस्थिति विषमाभयादवोत्थं वैराटं चतुरगकुंजरप्रधानम् । सौमित्र्याहितरति संयदुत्कपीनं गत्वैक्यं जगदिव तद्बलं चचाल ॥ ८ ॥ शौर्येति ॥ शौर्यान्तस्थिति क्षात्रधर्मोररीकृतस्थिति, नारायणमध्यस्थानकम् । विषमाभयादवोत्थं तीव्रकान्त्या दवानलतुल्यम्, तीव्रप्रतापियादवोत्पन्नम् । वैराटं वैरगामि, विराटराजसंबन्धि । चतुरगकुंजरप्रधानं चतुरगामिकोशप्रधानम्, च तुरंगमगजसनाथीकृतम् । सौमित्र्याहितरति लक्ष्मणाहितरति, सुमित्रत्वारोपितासक्ति । संयदुत्कपीनं समरोत्कण्ठितमर्कटेशम्, रणोत्सुकजनव्याप्तम् । तद् बलमैक्यं गत्वा जगदिव चचाल ॥ उत्कीर्णैरिव विधुभिर्मुखैस्तमालप्रारोहैरिव चिहुरैर्दृशां विलासैः । कुर्वद्भिः सर इव सोत्पलं दिगन्तं तद्देव्यः प्रसमचरन्त दन्तिनीभिः ॥९॥ ___उत्कीर्णैरिति ॥ उत्कीर्णैरुल्लिखितर्विधुभिश्चन्द्ररिव मुखैः, तमालप्रारोहैरिव चिहुरैः कुटिलकेशपाशैः सर इव दिगन्तं सोत्पलं कुर्वद्भिर्विलासैः कटाक्षविक्षेपैः, उपलक्षितास्तदेव्यस्तेषां राज्ञां देव्यो महिष्यो दन्तिनीभिः करिणीभिः प्रसमचरन्त ॥ उत्कार्तस्वररुचयोऽपि सौम्यभावा भामिन्यः सहजघनाः कुचोदिताङ्गयः। मेघालीष्विव करिणीषु दिव्यरुच्या लालित्यात्तडित इवाभवन्स्फुरन्त्यः॥१०॥ उत्केति ॥ उत्कार्तस्वररुचयः निष्टप्तकाञ्चनकान्तयः, उत्क उत्कट आर्तो भयानकः स्वरो यत्र तादृग्रुचिर्नयनझम्पनकारिप्रकाशो यत्र । सहजघना जघनसहिताः सार्धं जातमेघाः । कुचोदिताङ्ग्यः कुचार्थमुदितमङ्गं यासां ताः, पृथिवीप्रेरितशरीराः । दिव्यरुच्या मनोहराभरणाः मनोज्ञदीप्तेः । सौम्यभावरमणीयरमणीनां तडितः, करिणीनां मेघाली, उपमानम् ॥ उन्नेतुं तपनवितापमङ्गनानां छन्नाभिर्मणिमयकम्बलैर्वृषीभिः । शोणाभिर्बभुरधिरूढसांध्यरागा गच्छन्त्यस्ततय इवाम्बुदां करिण्यः ॥ ११॥ उन्नतुमिति ॥ अङ्गनानां करिण्यस्तपनवितापं सूर्यातपमुन्नेतुम्, मणिमयकम्बलैश्छनाभिः शोणाभी रक्ताभिर्वृषीभिः करिकम्बलैरुपलक्षिता गच्छन्त्यः सत्यः । अधिरूढसांध्यरागाः स्वीकृतसंध्याभवरागा अम्बुदां मेघानां ततय इव । बभुः ॥ मायूरं गतमुत नौप्लवं गतानां वाहानां पथि परतोऽधिरोपिताभिः । बालाभिः कुचभुजपीडिता युवानस्तद्भूयः स्थपुटदरीषु यानमीषुः ॥ १२ ॥ मायूरमिति ॥ मायूरमुड्डयनात्मकम् उताथवा नौप्लवं जलतरणात्मकं गतं गमनं गतानां प्राप्तानां वाहानामश्वानां परतः पृष्ठेऽधिरोपिताभिर्बालाभिस्तरुणीभिः पथि कुचभुजपीडिताः। पतनभीरुकामिन्यालिङ्गने कुचभुजाभ्यां पीडा । युवानो भयो वारंवारं स्थपुटदरीषु सरल. मार्गेषु तद् यानमीषुः॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy