________________
१४८
काव्यमाला।
कायस्य त्वचि कठिनस्य कर्कशायां निर्यातुं विकलमपास्य तप्तमास्यात् । सूत्कारस्रुतकरशीकराः करात्रैरन्तस्थं ववमुरिव द्विपाः श्रमाम्भः ॥ १९ ॥ __ कायस्येति ॥ सूत्कारसुतकरशीकराः सूत्कारवशात्स्रुताः कराच्छुण्डादण्डात् शीकरा जलकणा यैस्ते द्विपा आस्यान्मुखात् तप्तं संतप्तं, विकलमसमर्थ श्रमाम्भोऽपास्यापाकृत्य, कठिनस्य कर्कशस्य कायस्य कर्कशायां त्वचि निर्यातुम् , अन्तस्थं श्रमाम्भः श्रमजलं करागः शुण्डागर्ववमुरिव ॥ उच्छासाद्विविधभरं लघु वहन्तः किं न्यूनं किमधिकमित्यधीश्वराणाम् । सत्कारं निजनियतं च कर्म कार्मा मध्यस्थाः समतुलयन्निवाध्वनीनाः॥२०॥
उच्छासा इति ॥ अध्वनीना अध्वानमलंगामिनः, कार्माः शिक्यवाहा लघु विविधभरं काचभारम् उच्छवासाद् आयासजन्यनासाद्वारवायुविमोचनात् , वहन्तः सन्तः (कर्मसत्कारयोः) मध्यस्थाः सन्तोऽधीश्वराणां किं कर्म न्यूनं किम् अधि अधिकम् इति निजनियतं कर्म सत्कारं च समतुलयन्निव ॥ सेनैवंविरचितपार्थवाजिवेगादिक्ष्वाकुस्थितिविधिना यशो निधित्सुः । प्रस्थानाप्रभृति पृथग्विधा निवेशान्नात्रुट्यजलनिधिगामिनी धुनीव ॥२१॥ ___ सेनैवमिति ॥ इक्ष्वाकुस्थितिविधिना इक्ष्वाकूणां रामलक्ष्मणादीनां स्थितिविधिना आज्ञया, एवं विरचितपार्थवाजिवेगाद् एवमित्यङ्गीकारेण विरचितं पार्थवं पृथुत्वं यस्मिस्तादृशाद् आजौ समरे वेगाद्यशो निधित्सुर्विधातुमिच्छुः, पृथग्विधा सेना प्रस्थानात् प्रयाणकप्रदेशात् प्रभृति निवेशात् निवेशं शिबिरं मर्यादीकृत्य 'जलनिधिगामिनी समुद्रगा धुनी नदी इव' न अत्रुट्यत् ॥ भारतीये—विरचितपार्थवाजिवेगा विरचितो विहितः पार्थस्यार्जुनस्य वाजिनो वेगो यस्यां सा, आकुस्थितिविधिना आ अभिव्याप्तवत्याः कुं स्थितर्विधिना पृथ्वीव्यापकावस्थाविधानेन, दिक्षु यशो निधित्सुः सेना एवममुना प्रकारेण ॥ बीभत्सं रणरुचिरङ्गदोर्जितश्रीराशंसुर्जितपरभूमिपावनिश्च । भीमोघस्थितिरिपुदुर्धरं स्वरूपं पौरस्त्यां धुरि गतिमापतां ध्वजिन्याः॥२२॥
बीभत्समिति ॥ रणरुचिः समरप्रीतिः, अर्जितश्री:, भीमो भयानकः, अघस्थितिरिपुदुर्धरम् अघस्थितिरिपूणां पापिशत्रूणां दुर्धरम् , भीमोघस्थितिरिपुदुर्धरं भिया भयेन मोघा निष्फला स्थितिर्येषां तादृशां शत्रूणां दुर्धरं वा, जितपरभूमि जिता परेषां शत्रूणां भूमियेन तादृशं बीभत्सं रौद्रं स्वरूपम् आशंसुः श्लाधमानः, अङ्गदो वालिपुत्रः पावनिहनुमांश्च ध्वजिन्याः सेनाया धुरि पौरस्त्यामग्रभवां गतिमापतां प्राप्तवन्तौ । भारतीये-गदोर्जितश्रीः गदया अर्जिता श्रीर्येन, रणरुचिरं रणं रुचिरं प्रीत्युत्पादकं यस्य तम् रणे रुचिं प्रीति राति तं वा, अघस्थितिरिपुदुर्धरम्, स्वरूपमात्मरूपं भ्रातृत्वात् । बिन्दुत्यागेन अघस्थि