________________
१ सर्गः ]
द्विसंधानम् ।
चिता
तनुमिति ॥ यत्र किल काचबद्धे भूतले बिम्बितां नर्तक्यास्तनुं विलोक्य 'असू'वधूः किमियं प्रविष्टा' इति हेतोर्भकुंसैर्भ्रकुटिर्विरच्यते । भ्रान्तिमान् ॥ प्रियेषु गोत्रस्खलितेन पादयोर्नतेषु यस्यां शममागताः स्त्रियः । स्वबिम्बमालोक्य विपक्षशङ्कया पुनर्विकुप्यन्ति च रत्नभित्तिषु ।। ३१ ।। प्रियेष्विति ॥ यस्यां गोत्रस्खलितेन द्वितीयायाः संपत्न्या नामग्रहणापराधेन पादयोर्नतेषु प्रियेषु सत्सु शमं प्राप्ता अपि स्त्रियः पुना रत्नभित्तिषु स्वबिम्बमालोक्य विपक्षशङ्कया विशेषेण कुप्यन्ति । भ्रान्तिमान् ॥
प्रवालमुक्ताफलशङ्कशुक्तिभिर्विनील कर्केत नवज्रगारुडैः ।
यदापणा भान्ति चतुः पयोधयः कुतोऽपि शुष्का इव रत्नशेषतः॥ ३२ ॥ प्रवालेति ॥ यस्यामापणाः प्रवालैर्विद्रुमैः, मुक्ताफलैमौक्तिकैः शङ्खः कम्बुभिः, शुक्तिभिर्मुक्तास्फोटैः, विशिष्टैनले चकैः, कर्केतने रत्नविशेषैः, वज्रहरकैः, गारुडैर्गारुत्मतैभः कुतोऽपि कारणाच्छुष्काश्चतुः पयोधयो रत्नशेषत इव भान्ति । उत्प्रेक्षा ।। पट्य: पक्षौमदुकूलकम्बलं मधूनि वर्माणि च रत्नकाञ्चनम् । ऋयाय कर्पूरमयांसि चक्रिणो यदापणानन्तरितं समस्त्यपि ॥ ३३ ॥
पट्य इति ॥ सीवितवस्त्रद्वयलक्षणा: पट्यः, पटाः परिधानवस्त्राणि क्षौमाणि वस्त्र - विशेषाः दुकूलानि पत्रोर्णानि कम्बला ऊर्णायवः एषां समाहारः, मधूनि क्षौद्राणि, वर्माणि तनुत्राणि, रत्नानि पद्मरागादीनि काश्चनानि हिरण्यानि कर्पूरं घनसारम् । जात्यैकत्वम् । अयांसि लोहानि, चक्रिणो रथाः, इत्येवं सकलवस्तुजातं यदापणानन्तरितं यस्यां हट्टानवच्छिन्नं क्रयाय द्रव्यविनिमयाय समस्ति ॥
रसेषु हेमे कुसुमेषु कुङ्कुमे घनेषु वत्रे जलजेषु मौक्तिके ।
समस्तपण्ये सुलभे सुदुर्लभं यदीयवेश्याजनपण्यमुज्ज्वलम् ॥ ३४ ॥ रसेष्विति ॥ रसेषु धातुषु सुवर्णे, पुष्पेषु घुसृणे, कठोरेषु हीरके, वारिजेषु मौक्तिके, एवं समस्तपण्ये सुलभेऽपि यदीयवेश्याजनं जात्योज्ज्वलं सुदुर्लभमित्यर्थः । सुलभेषु हि - हीरकादिषु व्ययीक्रियमाणेष्वपि यन्नगरी निवासिनां यूनां प्रचुरतया उज्ज्वलं लावण्ययौवनमनेाहरणीयतादिगुणयुक्तं वैश्याजनरूपपण्यं दुर्लभं तासामल्पत्वादिति भावः । समुच्चयः ॥
कृतार्थसारान्व्यवहारघोषिणो न सत्पदव्याकरणेन मानितान् । गुरून्यदीयान्विपणींश्च संश्रितास्तृषान्यदीयाजिहतेऽन्यवस्तुनः ॥ ३९ ॥ कृतेति ॥ कृतार्थसारान्विहितार्थ निर्णयानू, व्यवहारं लौकिकाचारं घुष्यन्ति वदन्तीत्येवंशीलान्, प्रमाणबाधादूरीकृतपदानां तर्ककाव्य सिद्धान्तशास्त्राणां व्याकरणेन च मा
२